पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७८
सटीकलोचनोपेतध्वन्यालोके


स्था भवन्ति मयि जीवति धार्तराष्ट्राः' ।


लोचनम्

कादेशः । तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः तया याऽर्थान्तरगतिः स काव्य. विशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः । अत्र हेतुर्व्यङ्गयस्य तत्र गुणीभाव एवं भवति । अर्थान्तरगतिशब्देनात्र काव्यमेवोच्यते ।न तु प्रतीतेरत्र गुणीभूतव्य- ङ्गयत्वं वक्तव्यं, प्रतीतिद्वारेण वा काव्यस्य निरूपितम् ।

 अन्ये त्वाहुः-व्यङ्गयस्य गुणीभावेऽयं प्रकारः अन्यथा तु तत्रापि ध्वनित्वमे- वेति । तच्चासत् ; काकुप्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यङ्गयस्योन्मीलितस्यापि गुणी- भावात् , काकुहिं शब्दस्यैव कश्चिद्धर्मस्तेन स्पृष्टं गोप्येवं गदितः सलेशं' इति, 'हस- न्नेत्रापिताकूतम्' इतिवच्छब्देनैवानुगृहीतम् । अत एव भम धम्मिभ' इत्यादी काकु योजने गुणीभूतव्यङ्गयतैव व्यक्तोक्तत्वेन तदाभिमानालोकस्य । स्वस्था इति, भवन्ति इति, मयि जीवति इति, धार्तराष्ट्रा इति च साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता

बालप्रिया

ईषद्भूमिरिति । कश्चिदुपाय इत्यर्थः । भूमिरिति कुशब्दार्थकथनम् । कारिको व्याचष्टे-तयेत्यादि । तया काका । अर्थान्तरगतिरित्यनेनार्थान्तरावगमकः काव्य विशेषो विवक्षित इति वक्ष्यति तदाशयेन सेत्येतद्वयावष्टे-स काव्यविशेष इति । गुणीभाव इति सप्तमी निमित्ते गुणीभावाद्धेतोरित्यर्थ इत्याह-तत्रेत्यादि । न त्वित्याः दि । अर्थान्तरगतिरित्यस्य अर्थान्तरस्य प्रतीतिरिति यथाश्रुतार्थकत्वे अर्थान्तरप्रती. तेरेव गुणीभूतव्यङ्गयत्वं वक्तव्यं भवति, तच्चानर्भिमतमिति भावः । यथाश्रुतमुक्तम- र्थमेव योजयन्नाह-प्रतीतीत्यादि । अर्थान्तरप्रतीतेर्गुणीभावप्रदर्शनव्याजेन तद्धेतुभू- तकाव्यस्य गुणीभूतव्यङ्ग्यत्वं प्रदर्शितमित्यर्थः ।

 अन्ये तु काकुस्थले यत्र तद्व्यङ्ग्यस्य प्राधान्यन्तत्र ध्वनित्वं, यत्र गुणोभावस्तत्र गुणीभूतव्यङ्ग्यत्वं तदेतद्व्यङ्ग्यस्य गुणोभाव इत्यनेन दर्शितमिति व्याचक्षते; तन्म तमुपन्यस्य दूषयति-अन्य इत्यादि । शब्दस्पृष्टत्वमुपपादयति-काकुर्हीत्यादि । धर्म इति । यथोक्तमभिप्रायवान् पाट्यधर्मः काकुरिति । 'काकुः स्त्रियां विकारो यइशोक- भीत्यादिभिनेत्यिमरश्च । तेन स्पृष्टमिति । काकुरूपेण शब्दधर्मेण विषय कृतमि- त्यर्थः। शब्देनैवानुगृहीतमित्यनेनास्य सम्बन्धः धर्मधर्मिणोरभेदादिति भावः । शब्दा. वेदितत्वरूपशब्दानुगृहीतत्वे दृष्टान्तमाह-गोप्येत्यादि । अत एवेति । काकुव्यङ्गय- स्य गुणीभावादेवेत्यर्थः । काक्वित्यादि । भ्रमणनिषेवस्य काका व्यङ्गयत्वे गुणीभूत- व्यङ्ग्यत्वमेवेत्यर्थः । अत्र हेतुमाह-व्यक्तेत्यादि । तदा काकुयोजने । काकुमुदा. हरणे दर्शयति-स्वस्था इत्यादि । इति चेति । चतुर्षु स्थलेषु चेत्यर्थः । साका- ङ्क्षेत्यादि । साकाङ्क्षा दीप्ता गद्गदेन ताराप्रशमनोद्दीपनाभ्यां चित्रिता विशेषवती चेत्य-