पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७७
तृतीयोद्द्योतः


 इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्व- क्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।

अर्थान्तरगतिः: काक्वा या चैषा परिदृश्यते ।
सा व्यङ्गयस्य गुणीभावे प्रकारमिममाश्रिता ॥ ३८ ॥

 या चैषा काका क्वचिदर्थान्तरप्रतीतिदृश्यते सा व्यङ्गयस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते । यथा-'स्व-


लोचनम्

यितुं शक्या अर्हा उचिताः। यतः केऽपि नान्येनोपायेन शक्यनिरूपणाः ॥ ३७॥

 गुणीभूतव्यङ्गयस्योदाहरणान्तरमाह-अर्थान्तरेति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः। तत्र हि साकाङ्क्षनिराकाङ्क्षादिक्रमेण पठ्यमानोऽसौ शब्दः प्रकृता- र्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वा ईषदर्थे कुशब्दस्तस्य

बालप्रिया

शक्या अर्हा इति । अर्हा इत्यस्यैव विवरणम्-उचिता इति । वृत्तौ "वाच्यमस्प. ष्टमभिदधतेति । किंशब्दस्यानिर्ज्ञातविशेषधर्मावच्छिन्नवाचकत्वादिति भावः प्रतीयमानं वस्त्विति । तच्च वचनाशक्यत्वानुभवैकवेद्यत्वपरमाह्लादकारित्वादिकं बोध्यम् । का छायेत्यादि । उक्तं व्यङ्ग्यं वाच्यार्थोपस्कारकं सत्काव्यस्य चारुत्वं सम्पादयतीत्यर्थः ॥ ३७॥

 कारिको वृत्तिञ्च विवरिष्यन्नादौ काकुशब्दनिष्पत्तिमाह-ककेत्यादि अस्य धातोः एतद्धातुसम्बन्धी। ननु लौल्यमिच्छा तत्कथमत्र घटत इत्यत आह-तत्र हीत्यादि । तत्र काकुविषये । साकांक्षेति । यथोक्तं काव्यानुशासने-“सा च काकु- र्द्विधा साकाङ्क्षा निराकाङ्क्षा च, वाक्यस्य साकाङ्क्षनिराकासत्वात् । यस्माद्वाक्याद्यादृश- स्सङ्केतबलेनार्थः प्रतीयते, न तादृश एव, किन्तु न्यूनाभ्यधिकः प्रमाणबलेन निर्णय. योग्यस्तद्वाक्यं साकाङ्क्षं तद्विपरीतं निराकाङ्क्षम् । वक्तृगता ह्याकाङ्क्षा वाक्ये उपच. र्यते । सा च प्रकरणबलान्निश्चीयते । विशिष्टविषयत्वञ्च तस्यास्तत एवावसीयते । विषयोऽपि त्रिविधः अर्थान्तरं तदर्थगत एव विशेषस्तदर्थाभावो वेत्यादि । निराका- ङ्क्षादीत्यादिशब्देन दीप्ताद्यलङ्कारादिपरिग्रहः । क्रमः प्रकारः। असौ शब्द इति । ध्वनिविशेषात्मिका हि काकुश्शब्दधर्म इत्यतश्शब्द इत्युक्तम् । प्रकृतेति । प्रकृतो योऽर्थस्सङ्केत बलेनावगम्यमानस्तस्मादतिरिक्तमर्थमित्यर्थः । वाञ्छतीति । बोध्यत्वे- नेच्छतीत्यर्थः । अभिधीयत इति । उपचारादिति शेषः । प्रकारान्तरेणाह-यदि वेत्यादि । हृदयेति । हृदयस्थं यद्वस्तु विधिनिषेधादिरूपं तस्य प्रतीतेरित्यर्थः ।