पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७६
सटीकलोचनोपेतध्वन्यालोके


तद्यथा-

विसम्मोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविशेषाः ।
अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥


लोचनम्

कवेः-'कुरङ्गीवाङ्गानि इत्यादिश्लोकः । तथा प्रतीयमानस्य प्रियतमाभिलाषानुनाथ. नमानप्रमृतेः छाया कान्तिः यया। शृङ्गाररसतरङ्गिणी हि लज्जावरूद्धा निर्भरतया तांस्तान् विलासान्नेत्रगात्रविकार परम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जावि- जृम्भितमेतदिति भावः ।

 विश्रम्भेति । मन्मथाचार्येण त्रिभुवनवन्द्यमानशासनेन अत एव लज्जासाध्व. सध्वंसिना दत्ता येयमलङ्धनीयाज्ञा तदनुष्ठानेऽवश्य कर्तव्ये सति साध्वसलज्जात्यागेन विस्रम्भसम्भोगकालोपनताः, मुग्धाक्ष्या इति अकृतकसम्भोगपरिभावनोचितदृष्टि प्रसरपवित्रिता येऽन्ये विलासा गात्रनेत्रविकाराः, अत एवाक्षुण्णाः नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते, केवलेनान्यत्राव्यग्रेणैकान्तावस्थानपूर्वं सर्वेन्द्रियोपसंहारेण भाव-

बालप्रिया

तत्पदं व्याचष्टे-प्रतीयमानस्येत्यादि । यया हेतुना कान्तिरिति सम्बन्धः । कथं लज्जायास्तद्धेतुत्वमित्यत आह-शृङ्गारेत्यादि । इत्येतदिति सम्बन्धः। नेत्रादि विकारजातं प्रतीयमानच्छायारूपमिति भावः । श्लोकं व्याचष्टे-मन्मथाचार्यणे- त्यादि । राजा ज्ञातोऽप्यनतिलङ्घनीया ह्याचार्याज्ञा "गुरौ रुष्टे न कश्चने त्यादिवचना- दत आचार्यत्वरूपणम् । त्रिभुवनेति । यथोक्तं मालतीमाधवे-'अन्त्येषु जन्तु- ष्वित्यादि । अत एव त्रिभुवनवन्दनीयशासनत्वादेव । दत्तेत्यवश्य ग्राह्यत्वादि- सूचनार्थम् । आङ्क्षेति । सर्वा युवत्यस्त्यक्तलज्जा साध्वसास्म्भोगपरा भवेयुरित्या. ज्ञेत्यर्थः । त्यागेन कर्तव्य इति सम्बन्धः । अकृतकेति । अकृतकाः अकृत्रिमाः तथा सम्भोगस्य या परिभावना आस्वादः, तत्र तदवसर इति यावत् । उचिताश्च ये दृष्टिप्रसरास्तैः पवित्रिता इत्यर्थः । सम्भोगपरिभोगेति च पाठः । लीलाविशेषा इत्यत्र. त्यविशेषपदार्थकथनम् । अन्ये इति । असाधारणा इत्यर्थः । अत एव अन्यत्वादेव । एकान्तावस्थानफलमुक्तम्-सर्वेन्द्रियोपसंहारेणेति । कृत्यप्रत्ययार्थं द्वेधाह-


१. कुरङ्गीवाशानि स्तिमितयति गीतध्वतिषु यत्
सखों कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहो वेभ्यभिनवां
प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥

 इति सम्पूर्णश्लोकः ।