पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७५
तृतीयोद्द्योतः


प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम् ।

मुख्या महाकविगिरामलङ्कृतिभृतामपि ।
प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ ३७ ।।
अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते ।


लोचनम्

त्यादिना लौभाग्यमित्यन्तेन । यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुम्-तदि, मिति ॥ ३३ ॥

 मुख्या भूषेति । अलङ्कृतिभृतामपिशब्दादलङ्कारशून्यानामपीत्यर्थः । प्रतीय. मानकृता छाया शोभा, सा च लज्जासदृशी गोपन सारसौन्दर्य प्राणत्वात् । अलङ्कार- धारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् । प्रतीयमाना च्छाया अन्तर्मदनोद्भेद. जहृदयसौन्दर्य रूपा यया, लज्जा ह्यन्तरूद्भिन्नमान्मथ विकारजुगोपयिषारूपा मदनविजृ. म्भैव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलादर्शनात् । तथा हि कस्यापि

बालप्रिया

तदिदमित्यादेरुपसंहार्यानन्तर्भावात्तद्ग्रन्थमवतारयति-- यदित्यादि । प्रतारणमात्रं चेतोविलोभनमात्रम् । अर्थवादरूपं स्तुतिरूपम् ॥ ३६॥

 कारिकायां मुख्येत्यस्य भूषेत्यनेन सम्बन्ध इति दर्शयति-मुख्या भूषेति । अलङ्कृतिभृतामिति । अलङकृतिपदेन काव्यालङ्काराः कटकादयश्च ग्राह्याः । प्रतीय- मानच्छायेत्यस्य विवरणम्-प्रतीयमानतेत्यादि । प्रतीयमानं वस्त्वलङ्काररसा. यात्मकम् । लज्जेवेत्यस्य व्याख्यानम् -लज्जासदृशीति । लज्जासादृश्ये हेतुमाह- गोपनेति । गोपनेव सारा यस्य तत्तथाविधं सौन्दयं मेव प्राण। यस्यास्तस्या भाव- स्तत्ता, तस्मादित्यर्थः । प्रतीयमानस्य गोपनासारसौन्दयं प्राणत्वमुक्तं कामिनीकुच- कलशनिदर्शनदिशा । लज्जायास्त्वनुपदं वक्ष्यति । अलङ्कृति भृतामपीत्यस्य मुख्या- भूषेत्यस्य चापमानयोजनान्दर्शयति-अलङ्कारेत्यादि । प्रतीयमानच्छायेत्येतदप्युप- माने योजयति-प्रतीयमानेत्यादि । पक्षेऽत्र छायापदार्थो न कम्तिः, किन्तु योषितां यौवनारम्भसम्भाविनी कापि हृदयस्य दशेत्याह-अन्तरित्यादि । अन्त- र्मदनोद्भेदजं तद्धृदयसौन्दर्यन्तदेव रूपं यस्पास्सा मदनोद्भेदरूपमनोविकारात्मि- केति यावत् । यया प्रतीयमानेति सम्बन्धः । उक्तमुपपादयति-लज्जेत्यादि । उक्तार्थे व्यतिरेकेण तदसम्भवं हेतुमाह-वीतेत्यादि । कुरङ्गीत्यादिश्लोकः काव्य- प्रकाशे उदाहृतः । अत्र हि मन्मथविकार जुगोपयिका स्पष्टं गम्यते। प्रकारान्तरेणापि