पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७४
सटीकलोचनोपेतध्वन्यालोके


गुणीभूतव्यङ्गयस्य च प्रकारान्तरेणापि व्यङ्गयार्थानुगमलक्षणेन विषयत्व- मस्त्येव । तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स


लोचनम्

लक्षितेन सर्वेषां संग्रहः । मैवम् ; वस्तुमात्रं वा रसो वा व्यङ्गयं सद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतव्यङ्ग्यस्य चेति। प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य !

 यदि वेत्थमवतरणिका-ननु गुणीभूतव्यङ्ग्येनालङ्कारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्तमित्याशङ्कयाह-गुणीभूतेति । विषयत्वमिति लक्षणीयत्व- मिति यावत् । केन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्गयत्वेनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः । व्यङ्गये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्ष क्रियतामिति तात्पर्यम् । एवं 'काव्यस्यात्मा ध्वनिः इति निर्वाह्योपसंहरति-तदयमि-

बालप्रिया

नेति भावः । तत्कथमित्यादि । अव्यापकत्वादलक्षणमिति भावः । गुणीभूतव्यङ्गयत्व मित्यत्र व्यङ्ग्यपदेनालङ्कारमात्रन्न विवक्षिम् ; किन्तु वस्तुरसादिकचातो नाव्यापकमि- दमित्याह-मैवमित्यादि । वस्तुमात्रं वेति । यत्र गुणीभूतव्यङ्गयस्थलेऽलङ्कारो न चकास्ति तत्रेति भावः । व्यङ्ग्यार्थानुगमलक्षणेनेत्येतदर्थतो विवृत व्यङ्गयं सद्गुणीभूतं भविष्यतीत्यनेन । व्यङ्गय त्वेनार्था गमो वाच्यं प्रति गुणभावः, स लक्षणमसाधारण धर्मः स्वरूपं वा यस्य प्रकारान्तरस्य तेनेति तदर्थः । प्रकारान्तरेणेत्युपलक्षणे तृतीये. त्याह-उपलक्षितस्येति । गुणीभूतव्यङ्गयस्येत्यस्य विशेषणं, तथा च वस्तुरसाल ङ्कारान्यतमस्य गुणीभूतस्य व्यङ्ग यस्यैत्यर्थः । विषयत्वमस्त्येवेत्यनेन सम्बन्धः । अल- ङ्कारेष्विति विपरिणामेनानुषङ्गः।

 उक्तग्रन्थयोजनायाः क्लेशसम्पाद्यत्वम्मन्वानः प्रकारान्तरेणाह-यदि वेत्यादि । लक्षिता इति । भवेयुरिति शेषः। तस्य गुणीभूतव्यङ्गयस्य । लक्षणेनेत्युक्तेर्विषयत्व मित्यस्य लक्षणीयत्वमित्यर्थसिद्ध्यतीत्याह-लक्षणीयत्वमितीति। केन लक्षणीय त्वमिति प्रकारान्तरेणेत्यस्यावतारिका । ध्वनिव्यतिरिक्त इति । पूर्वमलङ्कारापेक्षया प्रकारान्तरत्वमिदानीन्तु ध्वन्यपेक्षयेति विशेषः । अनुगमः वाच्यं प्रति गुणीभावे. नावस्थानम् । लक्षणमसाधारणधर्मः । नन्वेतल्लक्षणन्न प्रागुक्तमतः कथं सिद्धवद- भिधानमित्यत आह-यङ्गय इत्यादि । व्यङ्ग्यलक्षणन्तावदुक्तमेव प्रथमोद्योते । यत्र व्यङ्गयान्वय इत्यादिना गुणीभावश्च निरूपित इति भावः । तदयमित्याद्युपसंहार• स्योपसंहार्यार्थविशेषदर्शनेन तात्पर्यमाह--एवमित्यादि । निर्वाह्य निव्यूढं कृत्वा ।