पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७३
तृतीयोद्द्योतः


सुलक्षिता भवन्ति । एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणर- हितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् , आ. नन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः ।


लोचनम्

धनात्प्रतिषेधेन समीकृत इति न्यायात् । अतिशयोक्तिः 'समुद्रः कुण्डिका' 'विन्ध्यो वर्धितवानर्कवर्त्मागृह्गात्' इति । एवमन्यत् ।

 न चैवमादि काव्योपगीति, गुणीभूतव्यङ्यतैवात्रालङ्कारतायां मर्मभूता लक्षिताः तान् सुष्टु लक्षयति । यया सुपूर्णं कृत्वा लक्षिताः सङ्ग्रहीता भवन्ति, अन्यथा त्वव- श्यमव्याप्तिर्भवेत्। तदाह-एकैकस्येति। न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्य- रूपत्वं चारुताहीनानामुपपद्यते, चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्गयत्वं सामान्य लक्षणम् । व्यङ्गयस्य च चारुत्वं रसाभिव्यक्तियोग्यतात्मकम् , रसस्य स्वात्मनैव विश्रान्तिधाम्न आनन्दात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् । अनन्ता हीति । प्रथमोद्द्योत एव व्याख्यातमेतत् 'वाग्विकल्पानामानन्त्यात्' इत्यत्रान्तरे ।

 ननु सर्वेष्वलङ्कारेषु नालङ्कारान्तरं व्यङ्गयं चकास्ति तत्कथं गुणीभूतव्यङ्गयेन

बालप्रिया

विभाषास्वित्यादि । स्पष्टमिदं वैयाकरणानाम् । समुद्रः कुण्डिकेति । जलबाहु. ल्य प्रदर्शनाय कुण्डिको विषयीकृत्य समुद्र इति निर्देशाद्भेदे अभेदरूपातिशयोक्तिरिति भावः । विन्ध्य इत्यादावसम्बन्धे सम्बन्धरूपा सा । उपसंहरन्नाह-एवमन्य. दित्यादि।

 एवमादीति । उक्तोदाहरणादिकमित्यर्थः । इतीति हेतौ । तल्लक्षणे सर्वं एवैते सुलक्षिता भवन्तीत्येतस्य विवरणम्-गुणीभूतेत्यादि । ययेति । गुणीभू. तव्यङ्गयतयेत्यर्थः । अन्यथेति । उक्तेन सामान्य लक्षणेन विना तत्तद्विशेषल- क्षणस्यैव कथन इत्यर्थः । क्वचिद्ग्रन्थे तूपमा हीत्यादिकस्सङ्गृहीता भवन्तीत्यन्तो ग्रन्थो न दृश्यते । ननु गुणीभूतव्यङ्गयत्वेमेव सर्वेषामलङ्काराणां सामान्य लक्षणं तल्लक्षणेन तेषां सुलक्षितत्वं भवतीत्युक्तमयुकमतिशयोक्त्यादीनामलङ्कारसामान्यरूप- त्वात्तल्लक्षणेनैव च चरितार्थत्वादित्यत आह-न चेत्यादि । चारुताहीनानामतिशयो. क्त्यादीनां सामान्यरूपत्वन्न चोपपद्यत इति सम्बन्धः । ततः किमत आह-चारूते- त्यादि । एतदायत्तेति । गुणीभूतव्यङ्ग यात्वाधीनेत्यर्थः। नन्वलङ्कारचारुत्वप्रयोजकं गुणीभूतव्यङ्गयस्य चारुत्वं वक्तव्यन्तदप्यन्येन प्रयुक्तन्तदप्यन्येनेत्यनवस्थाप्रसङ्ग इत्यत आह-व्यङ्गयस्येत्यादि ।

 यदुक्तन्तल्लक्षणे सर्व एते सुलक्षिता इति तदाक्षिप्य तत्समाधानपरतयोत्तरग्रन्थ- मवतारयति-नन्वित्यादि। सर्वेष्विति । दीपकादौ क्वचिदेव चकास्त्याक्षेपादौ तु

 ६० ध्व०