पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७२
सटीकलोचनोपेतध्वन्यालोके


 तदेवं व्यङ्गयांशसंस्पर्श संति चारुत्वातिशययोगिनो रूपकादयोऽ- लङ्काराः सर्व एव गुणीभूतव्यङ्गयस्य मार्गः । गुणीभूतव्यङ्गयत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् । तल्लक्षणे सर्व एवैते


लोचनम्

ह्येतदुपमायो स्पष्टेनाभिधाप्रकारेणैव । तथाजातीयानामिति । चारूत्वातिशयवता- मित्यथः । सुलक्षिता इति यत्किलैषां तद्विनिमुक्तं रूपं न तत्काव्येऽभ्यर्थनीयम् । उपमा हि 'यथा गौस्तथा गवयः' इति । रूपकं 'खलेवाली यूप' इति । श्लेषः द्विर्व- चनेऽची ति तन्त्रात्मकः । यथासंख्यं 'तुदीशालातुरे'ति । दीपकं 'गामश्वम्' इति । सस- न्देहः 'स्थाणुर्वा स्यात्' इति । अपह्नुतिः 'नेदं रजतम् इति । पर्यायोक्तं 'पीनो दिवा नात्ति' इति । तुल्ययोगिता 'स्थाध्वोरिच्च' इति । अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि, यथा पदसंज्ञायामन्तवचनम्-'अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न' इति । आक्षेपश्चोमयत्र विभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्व निषे-

बालप्रिया

महत्येत्यादौ । अत्र हेतुन्दर्शयन्नाहसाधारणेत्यादि । एतदुपमायामिति । मालोपमायामित्यर्थः । अभिधाप्रकारेण अभिधाव्यापारेण । एवकारेण व्यञ्जनस्य व्यवच्छेदः ।

 . अयमर्थः-अत्रोपमायामपेक्षितो धर्मः पूतत्वादिस्तयेत्यादिना स्पष्टमभिधीयते, न पुनर्दीपकाभिप्रायेण दीपस्थानीयोऽर्थःप्रभामहत्या शिखया दीप इव तया स पूतश्चेत्यादिवाक्यार्थत्रयस्य बोधो ह्यादौ जायते, तदुत्तरन्तु पूतत्ववि. भूषितत्वयोदीपाद्युपमानत्रयहिमवदुपमेयात्मकाने कानुगमोऽवगम्यत इति दीपकमत्र व्यङ्गयतयानुप्रविष्टमिति । मालोपमातिरिकोपात्तधर्मकोपमास्थले तु धर्मस्योभयत्र सम्बन्धः स्पष्टमभिधीयत इति न दीपकस्य व्यङ्गयतयानुप्रवेश इति मालोपमेत्यु. क्तम् । 'तथाजातीना मित्यत्र जातिशब्दः प्रकृते चारुत्वातिशयोगित्वरूपोपाधि- वचन इत्याह-चारुत्वेति । नन्वन्य एव गुणीभूतव्यङ्ग्यप्रकारः, अन्ये चोप. मादयोऽलङ्कारास्तत्कर्ष गुणीभूतव्यङ्गयलक्षणे कृते तेषां लक्षितत्वसिद्धिरित्यतो- ऽभिप्रायमुभेदयन्नाह-यत्किलेत्यादि । एषामिति । उपमादीनामित्यर्थः । त- द्विनिर्मुक्तं गुणीभूतव्यङ्ग्यताविरहितम् । नाभ्यर्थनीयमिति । अलङ्कारताया- मनुपयोगित्वादिति भावः । उक्तोपपादनायाह-उपमा हीत्यादि । द्विर्वचनेऽ. चीति । सूत्रेऽस्मिन् द्विर्वचनशब्दोऽर्थद्वयपरः । तुदीति । 'तुदीशाले'त्यादिसूत्रे हि यथासङ्घयेन सम्बन्धः । गामश्वमित्यत्रैकक्रियया स बोध्यः । स्थाध्वो. रिति । अनेन सूत्रेण द्वयोरेकं विधीयते । सर्वाणि ज्ञापकानीति । तत्तत्परिभाषा- दयस्सूत्रस्थतत्तत्पदेन गम्यन्त इति भावः । नेतीति । ज्ञापयतीति शेषः । उभयत्र 1