पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७१
तृतीयोद्योतः


विषयाः । समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनामावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादैव । तत्र च गुणीमूतव्यङ्गयता- यामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः । यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे । केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः । यथा सन्दे- हादीनामुपमागर्भवे । केषाञ्चिदलङ्काराणां परस्परगर्भतापि सम्भवति । यथा दीपकोपमयोः। तत्र दीपकमुपमागर्भवेन प्रसिद्धम् । उपमापि कदाचिद्दीपकच्छायानुयायिनी। यथा मालोपमा। तथा हि 'प्रभामहत्या शिखयेव दीपः' इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते ।


लोचनम्

विशिष्टस्योपदर्शनम् । इष्टा निदर्शने ति । उदाहरणम्-

अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उद्यः पतनायेति श्रीमतो बोधयन्नरान् ॥

 प्रयोलङ्कारेति । चाटुपर्यवसायित्वात्तस्याः । सा चोदाहृतेव द्वितीयोद्द्योतेऽस्मा- भिः । उपमागर्भत्व इत्युपमाशब्देन सर्व एव तद्विशेषा रूपकादयः, अथवौपम्य सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव । स्फुटैवेति । 'तया स पूतश्च विभूषितश्च' इत्येतेन दीपस्थानीयेन दीपनाद्दीपकमत्रानुप्रविष्टं प्रतीयमानतया, साधारणधर्माभिधानं

बालप्रिया

हरणश्च भामहीयम् । यियासति यातुमारभते । यथात्रोपमाया व्यङ्गयत्वं त्वं तथा कुवलयानन्दादौ स्पष्टम् । वृत्तौ 'गुणीभूतव्यङ्गयस्यैव विषया' इति । गम्य- मानधर्मस्य वाच्यसिद्धयङ्गत्वादिति भावः । 'तत्वव्यवस्थानादिति । समासोक्तित्वा- दिव्यवस्थितेरित्यर्थः । 'गुणीभूतव्यङ्गयतेति । वाच्यार्थोपस्कारकत्वादिति भावः । प्रेयोलङ्कारगर्भत्वे हेतुमाह लोचने-चाट्विति । सा चेति । व्याजस्तुतिश्चेत्यर्थः । केषाश्चिदलङ्कारमात्रगर्भतायामित्यत्रालङ्कारमात्रशब्देनालङ्कारसामान्याभिधानात्पुनरुप- मागर्भव इति तद्विशेषाभिधानं व्याहतमित्यत आह-उपमाशब्देनेत्यादि । तद्विशेषाः उपमाविशेषाः । “उपमैव तिरोभूतभेदा रूपकमिष्यत" इत्यादिवचनादिति भावः । रूपकादय इति । विवक्षिता इति. शेषः। उपमाशब्दोऽत्रोपमालङ्कारस्य न वाचकः किन्त्वौपम्यस्यैत्याह-अथवेत्यादि । सर्वसामान्यमिति । उपमारूप- कादिसर्वसाधारणमित्यर्थः । कथम्मालोपमायान्दीपकच्छायावगम इत्यत उपपादयति- तयेत्यादि । दीपस्थानीयेन दीपनादिति । अनेन दीप इवेति दीपयतीति वा दीपकशब्दव्युत्पत्तिर्दर्शिता । स्पष्टमिदं कुवलयानन्दे । प्रतीयमानतया दीपकमत्रानु- प्रविष्टमिति सम्बन्धः । प्रतीयमानतया व्यङ्गयतया । अत्र मालोपमास्थले 'प्रभा-