पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
सटीकलोचनोपेतध्वन्यालोके


कदाचित्प्राधान्येन कदाचिद्गुणभावेन । तत्राद्ये पक्षे वाच्यालङ्कारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्गयरूपता ।

 अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति, तेषां तु न सर्वविषयः। अतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः । येषु चाल. ङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगितानिद- र्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यन्यस्यैव


लोचमम्

शब्दस्पृगेव । अस्य त्रैविध्यस्य विषयविभागमाह-तत्रेति । तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन्

 नन्वतिशयोक्तिरेव चेदेवम्भूता तत्किमपेक्षया प्रथमं तावदिति क्रमः सूचित इत्या- शङ्कयाह-अयं चति । योऽतिशयोक्तौ निरूपितोऽलङ्कारान्तरेऽप्यनुप्रवेशात्मकः । नन्वेवमपि प्रथममिति केनाशयेनोक्तमित्याशङ्कयाह-तेषामिति । एवमलङ्कारेषु तावद्वयङ्गयस्पर्शोऽस्तीत्युक्त्या तत्र किं व्यङ्गयत्वेन भातीति विभागं व्युत्पादयति- येषु चेति । रूपकादीनां पूर्वमेवोक्तं स्वरूपम् । निदर्शनायास्तु 'क्रिययैव तदर्थस्य

बालप्रिया

केस्तु व्यङ्ग्यतया स्थातुमारब्धाया अपि अपरैवेति शब्देन स्पृष्टत्वावाच्यत्वमापतित- मिति द्वयोर्वाच्यत्वमित्यर्थः। नव्यमते त्वपरैवेत्यत्र भेदकातिशयोक्तिः, यत्रोत्पला- नीत्यादौ रूपकातिशयोक्तिः । भोजराजमते त्वत्र समासोतिरित्यादिमतभेदा बोध्याः। अस्येति । विषयविभागविरहे वैविध्यप्रदर्शनस्य मन्दफलत्वादिति भावः। आद्यः प्रकारः द्वयोरपि वाच्यत्वात्मकः ।

 अतियोक्तावुक्तस्य प्रकारस्यायञ्चेत्यादिनालङ्कारान्तरेष्वतिदेशः कृतः, तत् किमर्थ- मित्यतोऽवतारयति-नन्वित्यादि । चेदित्यसन्दिग्धे सन्देहवचनम् । अतिशयोक्ते- रेवैतद्युज्येत । तस्यास्सर्वालङ्कारशरीरस्वीकरणार्हत्वस्योक्तत्वादिति भावः । किमपेक्ष. येत्यादि । क्रमो हि सत्स्वेव बहुषु क्रमिकेषु घटेत, नान्यथेति भावः । निरूपित इति । प्रकार इति शेषः । प्रथममिति केनाशयेनोक्तमिति । प्राथम्यं प्राधान्येनेति वक्तव्यं प्राधान्यं किन्निबन्धनमित्यर्थः आह तेषामितीति । तेषामित्यादिना विशेष इत्यन्तेनाहेत्यर्थः । व्यङ्ग्यस्पर्शोऽस्तीत्युक्त्वेति । वाच्यालङ्कारवर्गोऽय- मित्यादिग्रन्थेनोक्त्वेत्यर्थः । किमिति । अलङ्कारान्तरं वस्त्वन्तर वेत्यर्थः । वृत्तौ 'तत्वप्रतिलम्भ' इति ।अलङ्कारत्वप्राप्तिरित्यर्थः । 'रूपकेत्यादि । रूपकादौ सादृश्यं व्यङ्ग्यमुपमा तु तत्स्वरूपैवेति बोध्यम् । लोचने-क्रिययेति । लक्षणमिदमुदा-