पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६९
तृतीयोद्द्योतः


रान्तरसंकीर्णत्वं कदाचिद्वाच्यत्वेन कदाचियङ्गयत्वेन । व्यङ्गयत्वमपि


लोचनम्

पेक्षणीयं स्यात् । अलङ्कारमात्रं च न किश्चिद्दृश्येत । अथ सा काव्यजीवितत्वेनेत्थं विवक्षिता, तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् । औचित्यवती जीवित- मिति चेत्-औचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किञ्चिदस्तीति तदेवान्तर्यामि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु स।। एतेन यदाहुः केचित्-औचित्यघटितसु- न्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेनेति ते स्ववचनमेव ध्वनिसद्भावाभ्युप. गमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः । तस्मान्मुख्यार्थबाधादुपचारे च निमित्तप्रयोजन- सद्भावादभेदोपचार एवायम् । ततश्वोपपन्नमतिशयोक्तेर्य॑ङ्गयत्वमिति । यदुक्तम. लङ्कारान्तरस्वीकरणं तदेव त्रिधा विभजते-तस्याश्चेति । वाच्यत्वेनेति । सापि वाच्या भवति । यथा-'अपरैव हि केयमत्र' इति । अत्र रूपकेऽप्यतिशयः

बालप्रिया

विरुद्ध्येतेति भावः । दूषणान्तरमाह-्अलङ्कारमात्रमित्यादि । किञ्चिदलङ्कार- मात्रमतिशयोक्त्यनालिङ्गितमपि दृश्यते, तदप्यघटमानं स्यादित्यर्थः । द्वितीयमुत्थाप्य दूषयति-अथेति । सा अतिशयोक्तिः । काव्यजीवितत्वेनेत्थं विवक्षिता काव्यजीवितत्वप्रदर्शनाय सर्वा वक्रोक्तिस्सैषेत्युक्ता। तथापीत्यङ्गीकृत्य वादसूचकम् । किमतिशयोक्तिमात्रस्य जीवितत्वं विवक्षितं, किं वा यत्किञ्चिद्विशिष्टस्य ? नाद्यः पक्ष इत्याह-अनौचित्येनापीति । सेत्यनुषङ्गः । यथा "अल्पं निर्मितमित्यादौ । तथा काव्यजीवितम् । द्वितीयमनुवदति-औचित्यवतीति । यथा “यद्विश्रभ्ये”. त्यादौ । तर्हि अस्मदभिमतं सिद्धमित्याह-औचित्यनिबन्धनमित्यादि । रसादिकः मेवौचित्यप्रयोजकमिति प्रागेवोक्तम् । मुख्यत्वे हेतुः-अन्तर्यामीति । न तु सेति। सा औचित्यवत्यतिशयोक्तिः । प्रसङ्गादाह-एतेनेत्यादि । एतेन प्रत्युक्ता इति सम्ब. न्धः । स्ववचनमेवेति । औचित्यघटितेति वचनमेवेत्यर्थः । ध्वनिसद्भावेति । औ. चित्यस्य रसादिनिबन्धनस्वाद्रसादिध्वनिसद्भावस्याभ्युपगमे प्रमाणीभवेदित्यर्थः। उपसं. हरति-तस्मादित्यादि । अभेदोपचार एवायमिति । सर्वा वक्रोक्तिस्सैवेति निर्देशो मुखं चन्द्र इत्यादिवदभेदोपचार एवेत्यर्थः। औपचारिकत्वोपपादनफलमाह-ततश्चेत्यादि। तस्याश्चेत्यादिग्रन्थस्य प्रकृतेन सङ्गतिन्दर्शयन्नाह-यदुक्तमित्यादि । उक्तमिति । उपचारनिमित्ततया पूर्वोक्तमित्यर्थः । अलङ्कारान्तरस्वीकरणमिति । अलङ्कारा. 'तरसङ्कीर्णत्वमित्यर्थः । तस्या इत्यस्य वाच्यत्वेनेत्यनेनापि सम्बन्ध इति व्याचष्टे- सापीत्यादि । सा अतिशयोक्तिः । अत्रोदाहरणं लावण्ये त्याद्युक्तमेव दर्शयति- यथेत्यादि । अत्र वाच्यालङ्कारन्दर्शयन्नतिशयोक्तेर्व्यङ्गयत्वाभावमाह-अत्रेत्यादि । नयनादीनामुत्पलत्वादिरूपणाद्रूपकस्य वाच्यत्वं तावद्वक्तमेव, अतिशयो.