पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६८
सटीकलोचनोपेतध्वन्यालोके


तिशययोगोऽन्यस्य त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वे- नाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थोऽवगन्तव्यः । तस्याश्चालङ्का-


लोचनम्

विशेषेण च भाव्यते रसमयीक्रियते, इति तावत्तेनोक्तं, तत्र कोऽसावर्थ इत्यत्राह- अभेदोपचारात्सैव सर्वालङ्काररूपेति । उपचारे निमित्तमाह-सर्वालङ्का- रेति । उपचारे प्रयोजनमाह-अतिशयोक्तिरित्यादिना अलङ्कारमात्रतैवेत्य- न्तेन । मुख्यार्थबाधोऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना ।

 अयं भावः-यदि तावदतिशयोक्तेः सर्वालङ्कारेषु सामान्यरूपता सा तर्हि ता- दात्म्यपर्यवसायिनीति तव्द्यतिरिक्तो नैवालङ्कारो दृश्यत इति कविप्रतिभानं न तत्रा-

बालप्रिया

ति । अर्थ इत्यनुषज्यते । विशेषेण भाव्यत इत्यस्यैव विवरण-रसेत्यादि । इतीत्या. दिपिण्डितार्थकथनम् । तावदित्यविसंवादे । तत्रेति । तद्वचन इत्यर्थः । असाविति। अयमेवेत्यत्रेदशब्देन विवक्षित इत्यर्थः । उपचारे हि त्रितयमवश्यं वक्तव्यं, निमित्तं प्रयोजनं मुख्यार्थबाधश्चेति । तत्राभिधेयसम्बन्धलक्षणनिमित्तसमर्पकं सर्वालङ्कारेत्या. दिकमित्याहोपचार इत्यादि । निमित्तमाहेति । तथाचालङ्कारशरीरस्वीकरणयोग्य. स्वरूपमुख्यार्थसादृश्यं निमित्तमिति । अतिशयोक्तिरित्यादिकं प्रयोज. नसमर्पकमित्याह-उपचार इत्यादि । वृत्तौ 'यमलङ्कारमधितिष्ठतीति । येनालङ्कारेण सम्बधनातीत्यर्थः। तस्येति । अतिशयोक्तिसम्बद्धस्येत्यर्थः । 'अन्यस्येति । अति- शयोक्त्यसम्बद्धस्येत्यर्थः । तथाचोपमादेरतिशयोक्तिसम्बन्धेन चारुत्वातिशयस्य द्यो- तनं प्रयोजनमिति भावः । लोचने-अत्रैवेति । प्रयोजनसमर्पकग्रन्थ एवेत्यर्थः ।

 कथमनेन मुख्यार्थबाधावग़म इत्यपेक्षायामाशयमुन्मीलयन्नाह-अयं भाव इत्यादि । यथा खण्डमुण्डादिविशेषेषु गोस्वादेरनुवृत्ततया सामान्यरूपत्वन्तथा उप- मादिविशेषेष्वतिशयोक्तेरनुवृत्ततया सामान्यात्मकत्वात्सर्वा वक्रोक्तिस्सैवेत्यभेदव्यपदेशो मुख्यो वा, सामान्यविशेषभावस्याविवक्षयानया वाचोयुक्त्या ध्वनिरेव काव्यात्मेति पक्षप्रतिक्षेपार्थमतिशयोक्तेः काव्यजीवितत्वं वा विवक्षितमिति विकल्पं मनसि कृत्या- द्यन्दूषयति-यदि तावदित्यादि । तादात्म्यपर्यवसायिनीति । तथाच यथा खण्डमुण्डादयो गोत्वाद्यात्मकास्तथा सर्वेऽलङ्कारा अतिशयोक्त्यात्मान एव भवेयुरिति भावः। नन्वस्तु तादात्म्यमित्यत आह-इति तद्व्यतिरिक्त इत्यादि । तव्द्यति. रिक्तः अतिशयोक्तिव्यतिरिक्तः । तत्र अतिशययोजने। अनपेक्षणायन स्या- दिति । यथा खण्डादीनां स्वत एव गोत्वाद्याकारशालित्वं नान्यापेक्षं तथा उपमादे- रतिशययोगित्वमपीति कविप्रतिभातारतम्यकृतातिशयतारतम्ययोगित्वमुपलभ्यमानं