पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६७
तृतीयोद्द्योतः


सैषा सर्वैव वक्रोक्तिरनयार्थों विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ इति ।

 तत्रातिशयोक्तिर्यमलङ्कारमषितिष्ठति कविप्रतिभावशात्तस्य चारुत्वा-


लोचनम्

शङ्कयाह-भामहेनेति । भामहेनापि यदुक्तं तत्रायमेवार्थोऽवगन्तव्य इति दूरेण सम्बन्धः। किं तदुक्तम्-सैषेति । यातिशयोक्तिर्लक्षिता सैव सर्वो वक्रोक्तिरलङ्कार- प्रकारः सर्वः।

वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः

 इति वचनात् । शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणा- वस्थानमित्ययमेवासावलङ्कारस्यालङ्कारभावः; लोकोत्तरतैव चातिशयः, तेनातिशयोक्तिः सर्वालङ्कारसामान्यम् । तथा हि-अनया अतिशयोक्त्या, अर्थः सकलजनोपभोग- पुराणीकृतोऽपि विचित्रतया भाव्यते । तथा प्रमदोद्यानादिः विभावतां नीयते ।

बालप्रिया

त्यादिशब्देन सामान्यविशेषयोरपृथक्तया समकालमेवावभासादित्यलङ्कारविशेषप्रती- त्युतरं तत्यक्तया भासमानत्वं व्या निवर्तमानं स्वव्याप्यं व्यङ्गयत्वमपि निवर्त- यतीति तस्य व्यङ्गयत्वोक्तिर्भामहवचनव्याहतत्वादयुक्तेत्यर्थः । व्यवहितत्वादन्वयन्दर्श- यति-भामहेनापीत्यादि। तदुक्तं भामहोक्तम् । श्लोकं व्याचष्टे-येत्यादि । लक्षितेति । "निमित्ततो वचो यत्त्विगत्यादिग्रन्थेन लक्षितेत्यर्थः । वक्रा वक्ष्यमाण- स्वरूपवक्रताविशिष्टा । उक्तिरुच्यमानोऽर्थ इत्यर्थाभिप्रायेण व्यांचष्टे-अलङ्कारप्र. कार इति । अलङ्कारविशेष इत्यर्थः । वक्रोक्तिशब्दस्यालङ्कारार्थकत्वे भामहोक्तिमेव संवादयति-वक्रेति । अलङ्कृतिरिति । अलङ्क्रियेति च पाठः । वक्रशब्दोऽत्रा- सम्भवत्स्वार्थस्सादृश्यात्प्रसिद्धपयातिलङ्घिरूपान्तरशालित्वेन लक्षयतीत्याशयेनाह- लोकेत्यादि । लोकोत्तीर्णेन रूपेण लोकप्रसिद्धशास्त्रेतिहासादिव्यावृत्तेन रूपेण । तच रूपं विवक्षितरसाभिव्यञ्जनं प्रति योग्यत्वापत्तिलक्षणम् । अयमेवेति । रसाभिव्य- ञ्जनयोग्यत्वरूपलोकोत्तीर्णरूपमेवेत्यर्थः । अलङ्कारस्यालङ्कारमाव: मादेरलङ्कारत्वम् । तथाच वक्रोक्तिशब्दोऽलङ्कारार्थक इति भावः । तथापि कथमति. शयोक्तिरूपत्वमत आह- -लोकोत्तरतैवातिशय इति । फलितमाह-तेनेति । अनयेत्यादिभागं विवृणोति-तथाहीत्यादि । तथाहीति । वक्ष्यमाणमुक्त्तोपपादकमि त्यर्थः । सकलेति । पुराणीकृतः अनास्वाद्यतां नीतः। विशब्दार्थविवरण विचि. त्रतयेति । नवनवविशेषशालितयेत्यर्थः । भाव्यते निष्पाद्यते । यथाहुः-"स्वभाव- श्वायमर्थानां यन्न साक्षादमी तथा। स्वदन्ते सत्कविगिरां गता गोचरतां यथेति । अर्थ- द्वयञ्चाम्यद्विभाव्यत इत्यनेन विवक्षितमिति दर्शयति-तथेत्यादि । प्रमदोद्यानादिरि- उप-