पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६६
सटीकलोचनोपेतध्वन्यालोके


नोत्कर्षमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्-


लोचनम्

दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः
कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ।।

 अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः सम्भाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति । अनौचित्येन तु शोभा लीयेत एव । यथा--

अल्पं निर्मितमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ इति ।

 नन्वतिशयोक्तिः सर्वालङ्कारेषु व्यङ्गयतयान्तलीनैवास्त इति यदुक्तं तत्कथम् ? यतो भामहोऽतिशयोक्तिं सर्वालङ्कारसामान्यरूपामवादीत् । न च सामान्यं शब्दाद्वि- शेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्गयत्वमित्या.

बालप्रिया

 तत्रौचित्ययुक्तमुदाहरणमाह-यदित्यादि । व्याख्यातोऽयं श्लोकः । भगवत इति मन्मथवपुष इत्यत्र, तच्च सम्भाव्यत एवेत्यत्र च हेतुः । सम्भाव्यत एवेति । एवं भवेदिति प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः । एवकारेणासम्भाव्यमानत्वव्यव- च्छेदः । अयं सौभाग्यविषयोऽतिशय इति । वनितावस्थाविशेषवर्णनेन प्रती. यमानस्सौन्दर्यादिगुणातिशय इत्यर्थः । तत्काव्ये तादृशि काव्ये । एतदेव प्रत्युदाहर. णमुखेन स्फुटयिष्यन्नाह-अनौचित्येनेत्यादि । लीयत एवेति । शोभोल्लासस्य का वार्तेति भावः । अल्पमिति । अल्पं निर्मितमिति । स्तनयोः पर्याप्तावकाश- स्वाभावेनेति भावः । इदमिति । दृश्यमानमित्यर्थः । एवंविधमिति । वक्तुमश. क्यमित्यर्थः । अत्रातिमहतोऽप्यवकाशात्मकाकाशस्याल्पत्वेन निर्माणोक्त्या ततोऽप्य- तिशयितं महत्वं स्तनयोः प्रतीयत इति अतिशयोक्तिर्यङ्गया, परन्त्वियं स्तनयोस्त- थाविधमहत्वस्यासम्भाव्यमानत्वेनानौचित्यवतीति काव्योत्कर्षं सम्पादयितुं न क्षमत इति भावः।

 भामहेनापीत्यादिग्रन्थः प्रकृते किमथ इत्यतस्तमवतारयति-नन्वित्यादि । यदुक्तमिति । अतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रियेति ग्रन्थेनेति भावः । कथमिति । अयुक्तमित्यर्थः । कुत इत्यत्राह-यत इत्यादि । भामहः अलङ्कारल- क्षणकारकूटस्थो भामहनामा आचार्यः । अवादीदिति। सैषा सर्वैव वक्रोक्तिरिति ग्रन्थे- नोकवानित्यर्थः । सर्वापि वक्रोक्तिः' सर्व एवालङ्कारः। 'सैषा' येयमुक्तातिशयोक्तिः सैवेति तत्तदलकाराणां विशेषत्वं तत्सामान्यरूपत्वञ्चातिशयोक्तेरिति तदर्थः । भवत्वेवं तावता प्रकृते किमायातमित्यत आह-न चेत्यादि । कथमस्य व्यङ्गयत्वमिति । व्यङ्गयं हि वाच्यात् पृथक्तया तत्प्रतीत्युत्तरं शब्दात्प्रतीयते सामान्यन्त्वन्यथा । गौरि-