पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६५
तृतीयोद्द्योतः


वस्त्वन्तरसंस्पर्शिनो दृश्यन्ते । यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वा- लङ्कारेषु शक्यक्रिया । कृतैव च सा महाकविमिः कामपि काव्यच्छविं पुष्यति, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये


लोचनम्

 तदयमर्थः- :-एकदेशविवर्तिरूपके-

राजहंसैरवीज्यन्त शरदैव सरोनृपाः

 इत्यत्र हंसानां यच्चामरत्वं प्रतीयमानं तन्नृपा इति वाच्येऽर्थे गुणतां प्राप्तमल- ङ्कारकार्यावदेव दर्शितं तावदमुना द्वारेण सूचितोऽयं प्रकार इत्यर्थः । अन्ये त्वेकदेशेन वाच्यभागवैचित्र्यमात्रेणेत्यनुद्भिनमेव व्याचचक्षिरे। व्यङ्गयं यदलङ्कारान्तरं वस्त्वन्तरं च संस्पृशन्ति ये स्वात्मनः संस्कारायाश्लिष्यन्तीति ते तथा । महाकविभिरिति । कालिदासादिभिः । काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाह-कथं हीति । हि. शब्दो हेतौ । अतिशययोगिता कथं नोत्कर्षमावहेत् काव्ये नास्त्येवासौ प्रकार इत्यर्थः । स्वविषये यदौचित्यं तेन चेद्धृदयस्थितेन तामतिशयोक्तिं कविः करोति । यथा भट्टे- न्दुराजस्य-

यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने
यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।

बालप्रिया

 कथमेकदेशविवर्तिरूपकेण तत्प्रदर्शनमित्यत आह-तदयमर्थ इत्यादि । प्रतीयमानमिति । सरसा नृपत्वरूपणमेव शाब्दन्तत्सामर्थ्याद्वीजनोपायभूतानां हंसानाञ्चामरत्वं व्यङ्गयमित्यर्थः । शरदश्चामरग्राहिणीत्वमप्यत्र व्यङ्गयं बोध्यम् । प्राप्तं प्राप्तं सत् । दर्शितमिति । अत्रोक्तव्यङ्गयोपस्कृतस्य वाच्यस्यैव चमत्कार. कारित्वाद्व्ययस्य गुणीभूतत्वं स्पष्टीकृतमित्यर्थः । यावदेवेति । कालावधिनिर्देश- स्तस्य स्पष्टत्वातिशयसूचनार्थः । तावदिति । तद्दर्शनमात्रावसर एवानन्यापेक्षया स्फुटावसेयोऽयमिति भावः । अमुना द्वारेणेति। उपलक्षणन्यायेनेत्यर्थः । अयं प्रकार: कारिकोक्तप्रकारः । एकदेशेन दर्शित इत्यस्यान्येषां व्याख्यानमाह- अन्य इत्यादि । एकदेशेनेत्यस्य व्याख्यानम्-वाच्य इत्यादि । अनुद्भिन्नमिति । अस्पष्टार्थकमित्यर्थः । व्यङ्गयमित्यस्योभयविशेषणत्वं योजयन्नाह-व्यङ्ग्यमि. त्यादि । संस्पृशन्तीत्यस्य विवरणम्-स्वात्मन इत्यादि । संस्काराय अतिश. ययोगाय । काव्य इत्यस्य पूर्वेण सम्बन्धः । नास्त्येवेत्यादि । सत्यामतिशययो- गितायामनासादितोत्कर्षः काव्यप्रकारो नास्त्येवेत्यर्थः । किं सर्वथा नेस्याह-स्ववि षय इत्यादि । स्वविषये स्वस्या अतिशयोक्तेर्यों विषयस्तस्मिन् । औचित्यं सम्भाव्यमानत्वलक्षणम् । तेन हृदयस्थितेनेति । कविहृदयस्थेन तदौचित्येनोप- लक्षितामित्यर्थः । करोति चेत्तदा नास्त्येवासौ प्रकार इति सम्बन्धः ।

 ५९ ध्व