पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६४
सटीकलोचनोपेतध्वन्यालोके


आमिअमिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥
वाच्यालङ्कारवर्गोऽयं व्यङ्गयांशानुगमे सति ।
पायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ ३६ ॥

 वाच्यालङ्कारवर्गोऽयं व्यङ्गयांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथायो. गमनुगमे सति च्छायातिशयं बिभ्रल्लक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि-दीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्गयाङ्लकारान्तर-


लोचनम्

सारभूतता प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमनु- भवति ॥ ३५॥

 एवं निरलङ्कारेपूत्तानतायां तुच्छतयैव भास मानममुनान्तःसारेण काव्यं पवित्री- कृतमित्युक्त्वालङ्कारस्याप्यनेनैव रम्यतरत्वमिति दर्शयति-वाच्येति। अंशत्वं गुण. मात्रत्वम् । एकदेशेनेति । एकदेशविवर्तिरूपकमनेन दर्शितम् ।

बालप्रिया

लक्ष्म्यास्सम्पद्रूपाया उपभोगाभावे चालब्धकल्पत्वाच्चन्द्रोदयकाले वारुण्युपभोगो हि मुख्यं फलं, स चन्द्रस्सा वारुणी चास्य पुत्रभावमेव भजत इति महोदधिरेव त्रैलोक्य- सार इतीयानर्थोऽत्र ध्वननव्यापारादवगम्यते । स चावगतस्सन्नहो कुटुम्बमिति शब्दस्पृष्टतया गुणीभावमवलम्बते यतः, तद्वयङ्गयार्थजातोपस्कृत एव वाच्यार्थो विस्मयविभावतां प्राप्नोति चमत्कारातिशयञ्च विधत्त इति ॥ ३५ ॥

 पूर्वकारिकातात्पर्यार्थकथनपूर्वकमुत्तरकारिकामावतारयति-एवमित्यादि । नि- रलङ्कारेविति । लक्ष्मीरित्याद्युक्तोदाहरणे न कश्चिदलङ्कारः स्फुटोऽवगम्यत इति भावः । उत्तानतायामिति । आपाततः प्रतीतावित्यर्थः । भासमानं काव्यमिति सम्बन्धः । भासमानमपीति च पाठः । अमुना गुणीभूतेन व्यङ्गयेन । अन्त- स्सारणेति। अन्तस्सारत्वं गुणीभावेऽपि बालक्रीडाकालीनराजत्वन्यायेन नैसर्गि- कमुत्कर्षशालित्वम् । अलङ्कारस्येति जात्येकवचनम् । अनेनैवेति । गुणीभूत • व्यङ्गयनैवेत्यर्थः । रम्यतरत्वमिति । अलङ्कारत्वात्स्वतो रम्यत्वमस्तीति तरप्प्र- त्ययः। अत एव “परां छायामिति छायातिशयमिति चोक्तम् । व्यङ्गयांशानुगम इत्यत्र व्यङ्ग्यस्य वाच्यं प्रत्यंशत्वं गुणीभूतत्वमेवेत्याह-अंशत्वं गुणमात्रत्व. मिति । अनेन दर्शितमिति । नामग्रहणे नामैकदेशग्रहणमिति न्यायेनैकदेशशब्द एकदेशविवर्तिरूपकपर इति भावः ।