पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६३
तृतीयोद्द्योतः


तथा-

प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः।
ये च तेषु प्रकारोऽयमेव योज्यः सुमेधसा ॥ ३५ ॥

 ये चैतेऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिना सुखावहाः काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणी- भूतव्यङ्गयो नाम योजनीयः । यथा-

 लच्छी दुहिदा जामाउमो हरी तंस धरिणिआ गङ्गा ।


लोचनम्

तथेति । प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्याक्षेपकत्वात्पदानि येषु । सुखावहा इति चारुत्वहेतुः । तत्रायमेव प्रकार इति भावः । सुमेधसेति । यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलोकसहृदयभावनामुकुलितलोचनोक्त्योपहस. नीयः स्यादिति भावः।

 लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता। जमाता हरिः यः समस्तभोगापवर्गदान- सततोद्यमी । तथा गृहिणी गङ्गा यस्याः समभिलषणीये सर्वस्मिन्वस्तुन्यपहत उपाय- भावः। अमृतमृगाङ्कौ च सुतौ, अमृतमिह वारुणी । तेन गङ्गास्नानहरिचरणाराधना- द्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठद्युपभोगलक्षणं मुख्यं फलमिति त्रैलोक्य-

बालप्रिया

इत्यत्र तत्प्रकारस्य चारुत्वहेतुत्वं दर्शितमित्याशयेनाह-चारुत्वहेतुरित्यादि । तत्र तथाविधे काव्यबन्धे । सहृदयत्वप्रतिष्ठालाभश्चैतत्प्रकारयोजनकौशलशालितानि- बन्धन एवेति तदर्थिभिस्तद्विषये महाप्रयत्न आधेय इति दर्शयितुं सुमेधसेत्युक्तमि- त्याह-यस्त्वेतमित्यादि । अलीकेति । अयं न सहृदयः किन्त्वलीकसहृदयभाव- नया असत्यस्य सहृदयत्वस्थ भावनया रसास्वादवैवश्यं मनसः प्रकटयितुं मुकुलितलो- चन आस्ते, पश्यतास्य विप्रलम्भकभावमिति सहृदयगोष्ठीषु परिहासपात्रं स्यादित्यर्थः ।

लक्ष्मीर्दुहिता जामाता हरिस्तस्य हिणी गङ्गां ।
अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधेः ॥

 इति छाया। पदानामेतद्गतानां व्यङ्गथमर्थजातन्दर्शयन्योजनामाह-लक्ष्मीरि. त्यादि । सकलेत्यादि । समस्तेत्यादि । यस्या इत्यादि च तत्तत्पदव्यङ्गयार्थकथ- नम् । अमृतमिति । अमृतपदार्थ इत्यर्थः । वारुणीति । न पीयूषं तस्य चन्द्रो- दयवदखिलजनसाधारण्याभावादिति भावः । तेनेति । उक्तनार्थजातेनेत्यर्थः । गङ्गा- स्नानेत्यादिगुणीभावमनुभवतीत्यन्तस्यायमर्थः । यस्यां स्नानाद्यदाराधनादितश्च या लभ्यते सा गङ्गास्य गृहिण्येव, स हरिरस्य जामातैव, सा लक्ष्मीरस्यात्मजैव, लब्धाया