पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
सटीकलोचनोपेतध्वन्यालोके


इत्यादि । रसादिरूपन्यायस्य गुणीभावो रसवदलङ्कारे दर्शितः तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराज- वत् । व्यङ्गयालङ्कारस्य गुणीभावे दीपकादिविषयः ।


लोचनम्

मिति । एतच्च प्रथमोद्द्योत एव निरूपितम् । अनुरागशब्दस्य चाभिलाषे तदुपर- क्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तम् । तस्यैवेति । वस्तुमात्रस्य । रसादीति । आदिशब्देन भावादयः रसवच्छब्देन प्रेयस्विप्रभृतयो- ऽलङ्कारा उपलक्षिताः।

 नन्वत्यर्थ प्रधानभूतस्य रसादेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्क्य प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति-तत्र चेति । रसवदाद्यलङ्कारविषये । एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्श्यालङ्कारात्म. नोऽपि तृतीयस्य व्यङ्गयप्रकारस्य तं दर्शयति-व्यङ्ग्यालङ्कारस्येति । उप- मादेः ॥ ३४॥

 एवं प्रकारत्रयस्यापि गुणभाव प्रदर्श्य बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह-

बालप्रिया

रूपार्थे तु निरूढलक्षणेत्यतिरस्कृतवाच्यत्वमुपपन्नमेवेति दर्शयति-अनुरागशब्द स्येत्यादि । अभिलाषे प्रेम्णि । तदिति । तत्पदार्थस्तद्वस्तु तदुपरक्तं येन तत्त्वं वस्तुपरक्षकत्वं तेन निमित्तेन लक्षणयेत्यर्थः । लावण्यशब्दद्वदिति । सुषमाविशेषे लावण्यशब्दस्येवेत्यर्थः । इत्यभिप्रायेणेति । उक्काद्धेतोः रक्तिमरूपप्रकृतार्थो वाच्य इत्यभिप्रायेणेत्यर्थः। प्रेमरूपार्थो व्यङ्गय एवेति बोध्यम् । रसवच्छब्देनेति । रसवदलङ्कारे दर्शित इत्यत्रत्यरसवच्छब्देनेत्यर्थः । रसवदलङ्कारविषयः प्राक्दर्शित इति च वृत्तौ पाठः।

 दृष्टान्तप्रदर्शनपूर्वकं रसादेर्गुणीभावप्रदर्शनस्य फलं. तदसम्भवशङ्कानिवृत्तिरित्या- शयेन शङ्कामाह-नन्वत्यर्थमित्यादि । वाच्यस्याप्यापेक्षिकं प्राधान्यमस्तीत्यतोऽ. त्यर्थमित्युक्तम् । कथमिति । प्राधान्यगुणीभावयोरेकत्र समावेशो विरुद्ध एवैति भावः । ननु प्रधानस्यापि सतो रसादेः कविविवक्षावाद्गुणीभावः किन्न स्यादित्यत आह-गुणीभावे वेति । प्रसिद्धदृष्टान्तेति । सुन्दरत्वेन प्रसिद्धदृष्टान्तेत्यर्थः । न हि राज्ञो विवाहप्रवृत्तमृत्यानुयायित्वमसुन्दरं भाति, प्रत्युत भृत्योत्कर्षविशेषोऽपि राजोत्कर्षातिशयायैव कल्पिष्यत इति चारुत्वमेव पुष्णातीति भावः ॥ ३४ ॥

 अस्येति । गुणोभूतव्यङ्ग्यस्येत्यर्थः । प्रसादगुणयोगात्प्रसन्नानि व्यङ्ग्यार्था- क्षेपकत्वाद्गम्भीराणि चेति सम्बन्धः । सुखावहा इत्यनेन तेषु प्रकारोऽयमेव योज्य