पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६१
तृतीयोद्द्योतः


चिद्वाच्यप्राधान्येन काव्यचारूत्वापेक्षया गुणीभावे सति गुणीभूतव्य- ङ्गयता, यथोदाहृतम्-'अनुरागवती सन्ध्या' इत्येवमादि । तस्यैव स्वय. मुक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोहाहृतम्- 'सङ्केतकालमनसम्'


लोचनम्

नाभिलाषादिविभावत्वात् । अत एवेयति यद्यपि वाच्यस्य प्राधान्यं, तथापि रसध्वनौ तस्यापि गुणतेति सर्वस्य गुणीभूतव्यङ्गयस्य प्रकारे मन्तव्यम् । अत एव ध्वने. रेवात्मत्वमित्युक्तचरं बहुशः।

 अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्दरीकृतनदीविषयेयमुक्तिरिति सहृदयाः, तत्रापि चोक्तप्रकारेणैव योजना। यदि वा नदीसन्निधौ स्नानावतीर्णयु- वतिविषया । सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणताव्यङ्गयस्य । उदाह्त.

बालप्रिया

स्वरूपोन्मज्जनेन हेतुनेत्यर्थः । व्यङ्गयस्य कटाक्षवदनादेर्वाच्यकुवलयचन्द्रादिरूपत्वेन दर्शनं त्यभिलाषादिजनने निमित्तमिति भावः। अत एवेति। उक्तरीत्या व्यङ्गयस्य गुणीभा- वादेवेत्यर्थः । इयतीति । विस्मयविभावताप्राप्तिपूर्वकाभिलाषादिविभावताप्राप्तिपर्यन्तेऽर्थ इत्यर्थः । अनन्तरन्तु तस्या गुणीभाव एवेत्याह-तथापीत्यादि । रसध्वनौ शृङ्गारा. दिध्वनौ । तस्यापि वाच्यस्यापि । न केवलमत्रैवेत्याह-इति सर्वस्येत्यादि । अत्रोपष्टम्भकमाह-अत एवेत्यादि । यदि गुणीभूतव्यञ्गयप्रभेदे वाच्यार्थस्यैव प्राधान्यं स्यात्तदा ध्वनिः काव्यस्यात्मेति तत्र तत्रोद्धोष्यमाणमसङ्गतं स्यादिति भावः ।

 श्लोकस्यास्य क्वचित्प्रबन्धेऽनुपलम्भान्मुक्तकस्यौचित्यानुसारेण वर्ण्य॑विशेषनिवर्ण. नाविधेयेति दर्शयन् पक्षान्तरमाह-अन्ये त्वित्यादि । लावण्यद्रवसुन्दरीकृतनदीविषये- त्यनेन लावण्यसिन्धुरित्येतद्विवृतं लावण्यमयी लावण्यसुन्दरीकृता वा सिन्धुरिति विग्रहः, सिन्धुशब्दो न तिरस्कृतवाच्यो व्यञ्जक इति च भावः । उत्पलादिशब्दानान्तु प्रागुक्तैव व्यञ्जनपरिपाटीत्याह-तत्रापि चेत्यादि । अस्मिन् पक्षे कुवलयादीनामतिसुभगैका- धिकरणसमावेशकृतसौभाग्यलाभो न सामञ्जस्येन भवतीत्यस्वरसमन्य इत्यनेन सूचयन् पक्षान्तरमाह-यदि वेत्यादि । नदीसन्निधाविति । युवतिगतनिरतिशयलाव- ण्यपूरव्याप्तत्वाल्लावण्यमयी सिन्धुर्यस्यास्सेत्यर्थात्सिन्धुशब्दोऽत्रापि पक्षे मुख्यार्थक एव, न च प्रागुक्तदोषस्तरुण्या एव वर्णनीयत्वादिति भावः। पक्षत्रयेऽपि विवक्षित- गुणीभूतव्यङ्गयप्रभेदत्वं निर्बाधमित्याह-सर्वथेत्यादि । निरूपितमिति । यथात्र व्यङ्गयस्य नायकवृत्तान्तस्य गुणीभावस्तथा दर्शितमित्यर्थः । ननु सन्ध्यादिशब्दाना- मतिरस्कृतवाच्यानामेव नायिकाद्यर्थप्रत्यायकत्वेऽप्यनुरागशब्दस्य प्रेमवाचकत्नैव प्रसिद्धस्य रक्तिमरूपप्रकृतार्थे जहत्स्वार्थलक्षणाया एव वक्तव्यतया कथमतिरस्कृतवा. च्यत्वमिति शङ्को परिजिहीर्षुः प्रत्युत तत्पदस्य योगरूढ्या रक्तिमवाचकत्वमेव, प्रेम.