पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६०
सटीकलोचनोपेतध्वन्यालोके


अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्गयस्य कदा.


लोचनम्

तवाच्यस्वम् । स च प्रतीयमानोऽप्यर्थविशेषः 'अपरैव हि केयः इत्युक्तिगीकृते वाच्येंऽशे चारूत्वच्छायां विधत्ते, वाच्यस्यैव स्वात्मोन्मज्जनया निमज्जितव्यङ्गय- जातस्य सुन्दरत्वेनावभानात् । सुन्दरत्वं चास्यासम्भाव्यमानसमागमसकललोकसार- भूतकुवलयादिभाववर्गस्यातिसुभगकाधिकरणविश्रान्तिलब्धसमुच्चयरूपतया विस्मय- विभावनाप्राप्तिपुरस्कारेण व्यङ्ग्यार्थोपस्कृतस्य तथा विचित्रस्यैव वाच्यरूपोन्मज्जने

बालप्रिया

नीलाब्जप्रभृतेः । अन्धेति । निःश्वासान्ध इवादर्श इत्यत्रान्धशब्दव्याख्याने य उक्तो न्यायस्तेनेत्यर्थः । प्रतीयमानोऽपीत्यपिशब्देन स्वतःप्राप्तप्रधानभावस्य वैपरीत्येन गुणीभावापत्तिर्विरद्धेति दर्शयति । सोऽर्थविशेषः व्याख्यातव्यङ्गया र्थजातम् । अपरैवेत्यादि । अपरैव हीति केयमिति चोक्तिभ्यां सामान्यात्मना क्रोडीकृत इत्यर्थः । वाच्येंऽशे सिन्धूत्पलादिशब्दवाच्यनदीनीलाब्जादिघटितवा- क्याथें । चारुत्वच्छायां काव्यचारुत्वप्रतीतिहेतुभूतो शोभाम् । विधत्ते करोति । अनेन व्यङ्ग्यस्य गुणीभावः प्रदर्शितः । अत्र सहृदयानुभवमेव प्रमाणयति- वाचस्यैवेत्यादि । वाच्यस्यैव सुन्दरत्वेनावभासनादिति सम्बन्धः ।अत्र हेतु. गर्भे विशेषणे दर्शयति-स्वात्मेत्यादि । स्वस्य वाच्यस्य य आत्मा स्वरूपन्तस्य यदुन्मज्जनमुद्धुरकन्धरतयावस्थानं तया उपलक्षितस्य । तथा निमज्जितं व्यङ्गय. जातं पूर्वोक्तं येन तस्य । व्यङ्गयजातस्य निमज्जनं वाच्यमुखप्रेक्षितया नीचैरव स्थानम् । कथं पुनस्तादृशस्य वाच्यस्य सुन्दरत्वमित्यत आह-सुन्दरत्वञ्चे- त्यादि । अस्य वाच्यस्य । श्लोकेऽस्मिन्नादौ वाच्यस्य विस्मयविभावता- प्राप्तिः पुनस्तामेव पुरस्सरीकृत्याभिलाषादिविभावताप्राप्तिरिति प्रतीयते तदभि- प्रायेणाह-असम्भाव्येत्यादि । असम्भाव्यमानस्सम्भावयितुमप्यशक्यतां प्रति- पद्यमानस्समागमो येषां ते । तथा सकललोकसारभूताश्च ये कुवलयादयो भावाः पदार्थास्तेषां वर्गस्य । अतिसुमगं यदेकाधिकरणं नायिकारूपं तत्र या विश्रा- न्तिः संश्लिष्यावस्थितिस्तया लब्धं समुच्चयरूपं सङ्घातरूपत्वं येन तस्य भाव. स्तत्ता तया हेतुना । या विस्मयविभावताप्राप्तिस्तस्याः पुरस्कारेण पुरस्सरीकारे- णेति च पाठः । अभिलाषादिविभावताप्राप्तौ हेतुमाह-व्यङग्येत्यादि । व्यङ्ग्या- र्थौपस्कृतस्य कटाक्षवदनाद्युक्तव्यङ्ग्यार्थजातेनोपस्कृतस्य । तथाविचित्रस्य व्यङ्ग्यार्थोपस्कारेण वैचित्र्यं विशेषं प्राप्तस्य । ननु यदि व्यङ्ग्यार्थोपस्कृतस्यैवाभि- लाषादिविभावत्वं न स्वरूपतः, तर्हि व्यङ्गयस्य प्राधान्यमापतितं तस्यैव विभावता- प्राप्तौ प्रयोजकत्वादित्यत आह-वाच्यरूपान्मज्जनेनेति । कुवलयचन्द्रादिवाच्यार्थ-