पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५९
तृतीयोद्द्योतः


 व्यङ्गयोऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्ननिरित्युक्तम् । तस्य तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूतव्यङ्गयो नाम काव्यप्रभेदः प्रकल्प्यते । तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृत- वाच्येभ्यः प्रतीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्गया।

यथा-

लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्तटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥


लोचनम्

इति। व्यङ्गयनान्वयो वाच्यस्योपस्कार इत्यर्थः । प्रतिपादित इति । 'प्रतीयमानं पुनरन्यदेव' इत्यत्र । उक्तमिति । 'यत्रार्थः शब्दो वा' इत्यत्रान्तरे व्यङ्गयं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयति- तत्रेति । लावण्येति । अभिलाषविस्मयगर्भेयं कस्यचित्तरुणस्योक्तिः ।

 अत्र सिन्धुशब्देन परिपूर्णता, उत्पलशब्देन कटाक्षच्छटाः, शशिशब्देन वदनं, द्विरदकुम्भतटोशब्देन स्तनयुगलं, कदलिकाण्डशब्देनोरुयुगलं, मृणालदण्डशब्देन दोर्यु. ग्ममिति ध्वन्यते । तत्र चैषां स्वार्थस्य सर्वथानुपपत्तेरन्धशब्दोक्तेन न्यायेन तिरस्कृ.

बालप्रिया

सम्बन्धमानं वाच्यस्यात्र विवक्षितं, किन्तु व्यङ्गयसम्बन्धकृतातिशयविशेषास्पदत्व- मित्याह-वाच्यस्योपस्कार इति । व्यङ्गयस्य गुणीभावे वक्तव्ये वृत्तौ वस्त्वादे- र्गुणीभावप्रदर्शनासङ्गतिशङ्कामुद्धर्तुमाह-व्यङ्गयञ्च वस्त्वादित्रयमिति । उक्तमिति शेषः । वृत्तौ लावण्येति । 'अत्र अस्मिन्देशे । अपरैव अपूर्वैव। 'केयं लावण्यसिन्धुः' लावण्यस्य सरित् । 'यत्र' यस्याम् । 'शशिना' पूर्णचन्द्रेण । 'संप्लवन्ते' सम्मिलितानि भवन्ति । 'उन्मज्जति' उत्थिता भवति । 'द्विरदः' गजः । 'यत्रे' त्यादि । सन्तीति शेषः । 'कदलिकाण्डः' कदलीदण्डः । वस्तुमात्रस्य व्यङ्गयस्येत्यादिवृत्त्युक्तं सर्वं क्रमेण प्रदर्शयिष्यन्नादौ भूमिका रचयति लोचने-अभिलाषेत्यादि । प्रथमं विस्मयस्त- तोऽभिलाष इति क्रमः, तदविवक्षयाभिलाषविस्मयगर्भेत्युक्तम् । कस्यचिदिति । विशेषानुक्तिरनुपयोगात् । सिन्धुशब्देनेति। सिन्धुशब्देन परिपूर्णतेति ध्वन्यत इत्या- द्यन्वयः। परिपूर्णतेति । पारिपूर्ण्यविशिष्टेत्यर्थः । उत्पलानिति बहुवचनान्तनिर्दे- शानुगुण्येनाह-कटाक्षच्छटा इति । ध्वन्यन्त इति विपरिणामेनात्र सम्बन्धः । तत्रेति । उक्तवस्तुध्वनने सतीत्यर्थः । एषां सिन्धूत्पलादिशब्दानाम् । तिरस्कृतवा- च्यत्वमित्यनेन सम्बन्धः । अत्र हेतुमाह-स्वार्थस्येत्यादि । स्वार्थस्य नदी-