पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५८
सटीकलोचनोपेतध्वन्यालोके


ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् ॥
प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते ।
यत्र व्यङ्गयान्वये वाच्यचारुत्वं स्यात्मकर्षवत् ॥ ३४ ॥


लोचनम्

स्मृत्यायुर्वेदधनुर्वेदप्रभृतीनां सकललोकयात्रौपयोगिनामनारम्भः स्यादिति भावः। विमतिविषयत्वे हेतु:-अविदितसतत्त्व इति । अत एवाधुनात्र न कस्यचिद्विम- तिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुम्-आसीत् इत्युक्तम् ॥ ३३ ॥

 एवं यावद्ध्वनेरात्मीयं रूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्वं प्रतिपाद्य प्राणभूतं व्यङ्गयव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जक- वादस्थान रचितमिति ध्वनिं प्रति यद्वक्तव्यं तदुक्तमेव । अधुना तु गुणीभूतोऽप्ययं व्यङ्गयः कविवाचः पवित्रयतीत्यमुना द्वारेण तस्यैवात्मत्वं समर्थयितुमाह-प्रकार

बालप्रिया

इत्युक्तरुपयोगमाह लोचने-विमतिविषयत्वे हेतुरिति । संशयस्य विशेषानव- धारणमूलकत्वं हि प्रसिद्धम् । आसीदिति भूतनिर्देशस्य फलमाह-अतएवेत्यादि । अतएवेति । यत एव विप्रतिपत्तिर्वस्तुतत्वानवबोधनिबन्धना तदवधारणे सति नोत्पत्तुमर्हति, तत एवेत्यर्थः । अधुनेत्येतद्विविच्याह-एतस्मात्क्षणादित्यादि । प्रतिपादयितुमिति । सूचयितुमित्यर्थः ॥ ३३ ॥

 अथ गुणीभूतव्यङ्ग्यप्रतिपादनपरमुत्तरग्रन्थसन्दर्भं तात्पर्यार्थकथनपूर्वकमवतार. यितुमादित आरभ्यैतदन्तवृत्तग्रन्थसन्दर्भस्यार्थं सक्षिप्याह-एवमित्यादि । एवं यावद्ध्वनिं प्रति यद्वक्तव्यन्तदुक्तमेवेति सम्बन्धः । प्रथमोद्योते तावत्सोपोद्धातं ध्वने. स्सामान्यलक्षणमेवोक्तं, द्वितीये त्वविवक्षितवाच्यादिभेदस्तद्भेदाश्च प्रदर्शिताः । तदाह- भेदोपभेदसहितमात्मीयं रूपमिति । यच्चेत्यनेन तृतीयोद्योतार्थं उक्तः । तत्सर्वं प्रतिपाद्येत्यनेन, तावतैव ध्वनिस्वरूपप्रतिपादनं निर्व्यूढमिति दर्शयति । प्राणभूतमित्यनेन व्यङ्ग्यव्यञ्ज कभावनिरूपणस्यात्यन्तावश्यकत्वं प्रदर्शितम् । एक. प्रघट्टकेनेत्यादिना पौनरुक्त्यशङ्का परिहृता । ध्वनिं प्रतीत्यनेन प्रतिपाद्यान्तर. सद्भावं ध्वनति । ननु काव्यस्यात्मा ध्वनिरित्यभ्युपगमेन काव्यात्मभूतध्वनिस्वरूप- प्रतिपादनमात्रप्रवृत्तत्वात् किमर्थं गुणीभूतव्यङ्गयप्रतिपादनं कृतं, तस्य काव्यात्मत्वा- भावादित्यतोऽभिप्रायं दर्शयन्नवतारयति-अधुनेत्यादि । अयं व्यङ्गयः उक्तप्रकारो व्यङ्गयार्थः । गुणीभूतोऽपि न प्रधानभूत एवेति भावः । पवित्रयतीति । छाया- तिशयं सम्पादयतीत्यर्थः । अमुना द्वारेणेति । कैमुत्यन्यायोपक्षेपमुखेनेत्यर्थः । तस्यैवेति । ध्वनेरेवेत्यर्थः । उक्तं हि प्राक् ‘एवंभूता चेयं व्यङ्ग्यतेत्यादिनराजत्वमिवेत्यन्तम् । चारुत्वाकर्षहेतुत्वेन व्यङ्गयान्वयस्य कारिकायान्दर्शितत्वान्न व्यङ्ग्य-