पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५७
तृतीयोद्योतः


कत्वम् । तदन्तःपातित्वेऽपि तस्य हठादभिधीयमाने तद्विशेषस्य ध्वने. र्यत्प्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तस्क्रियमाणमन. तिसन्धेयमेव । न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रति- क्षेपः शक्यः कर्तुम् । एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तु- लक्षणानां पौनरुक्त्यप्रसङ्गः । तदेवम् -

 विमतिविषयी य आसीन्मनीषिणां सततमविदितसतत्त्वः ।


लोचनम्

ग्रयन्तरपनिपातायद्विविष्टं रूपं तदेव व्यञ्जकत्वमुच्यतामित्याशङ्कयाह-तदन्तः- पातित्वेऽपीति । न वयं संज्ञानिवेशनादि निषेधाम इति भावः । विप्रतिपत्ति. स्तादृग्विशेषो नास्तीति व्युत्पत्तिः संशयाज्ञाननिरासः । न हीति । उपयोगिषु विशेषेषु यानि लक्षणानि तेषाम् । उपयोगिपदेनानुपयोगिनां काकदन्तादीनां व्युदासः । एवं हीति। त्रिपदार्थसङ्करी सत्तेत्यनेनैव द्रव्य गुणकर्मणां लक्षितत्वाच्छ्रुति-

बालप्रिया

त्यर्थः । विशिष्ट रूपमिति । अवस्थान्तरपर्यायं विलक्षणं स्वरूपमित्यर्थः । तदेव व्यञ्जकत्वमुच्यतामिति । व्यञ्जकत्वाख्यस्यार्थान्तरस्य कल्पनापेक्षया लाघवादिति भावः । वृत्तौ तस्य तदन्तःपातित्वे हठादभिधीयमानेऽपीति योजना । 'तदन्तःपाति- त्वे' गुणवृत्तिवाचकत्वाद्यन्तःपातित्वे । 'तस्य' व्यञ्जकत्वस्य । तद्विशेषस्य ध्वनेः' व्यञ्जकत्वविशेषात्मकस्य ध्वनेः । 'अनतिसन्धेयम् आदरणीयम् । भावमाह लोचने- न वयमित्यादि । वयं संज्ञानिवेशनादि न निषेधाम इति । अस्मदभिमतस्य व्यञ्ज- कत्वस्य विलक्षणस्वरूपाभिधादिसंज्ञा यदि क्रियते, तर्हि तां न निषेधाम इत्यर्थः । वस्तुनि हि समुचिता विमतिर्न नाममात्र इति भावः । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिरिति व्युत्पत्तिमभिप्रेत्य तत्पदं व्याचष्टे-ताद्रगित्यादि । ताद्रग्विशेषः व्यञ्जकत्वरूपः। व्युत्पत्तिपदेन विवक्षितमाह-संशयेति । उपयोगीत्यादिग्रन्थं विवृणोति-उपयो- गिष्वित्यादि । उपयोगिषु लोकयात्रोपयोगिषु । विशेषेषु वस्तुविशेषेषु । तद्ग- तानीति यावत् । उपयोगिष्विति विशेषणस्य फलमाह-उपयोगिपदेनेत्यादि । वैशेषिकदर्शने द्रव्यादिपदार्थानामुद्देशानन्तरमादौ “सदनित्यमित्यादिसूत्रेण द्रव्य. गुणकर्मणां त्रयाणां सत्तावत्वादिकं लक्षणमभिहितं, तन्मनसि कृत्योक्तं वृत्तौ 'सत्तामात्रे' त्यादि । तद्विवृणोति-त्रिपदार्थेत्यादि । त्रिपदार्थसङ्करीति । त्रिपदार्थसङ्की. र्ऎति पाठस्साधुः । द्रव्यादिपदार्थत्रयव्याप्तेत्यर्थः । सकलेत्यादिप्रसङ्ग इत्यन्तेन विव. क्षितं व्याचष्टे-श्रुतीत्यादि । अनारम्भे बाधकं दर्शयति-सकलेत्यादि । वृत्तावुप- संहरति-तदेवमित्यादि । 'विमतीत्यादिश्लोको वृत्यन्तर्गतः । 'अविदितिसतत्व'

 ५८व०