पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५६
सटीकलोचनोपेतध्वन्यालोके


प्रयोजकम् । अपि तु व्यञ्जकत्वलक्षण: शब्दानां व्यापार औत्पत्तिक- शब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् । तद्धि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानाम- वाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आरब्धः । तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्ज.


लोचनम्

तत्पूर्वमुपक्षिप्तमित्याशङ्कयाह-अपि त्विति । एतदेव संक्षिप्य निरूपति-तद्धीति । यत एव हि क्वचिदनुमानानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणत्वेन गीतध्वन्यादौ क्वचिदभिधया विक्षितान्यपरे क्वचिद्गुणवृत्त्या अविवक्षितवाच्येऽ. नुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं नस्सिध्यति तदाह-तदेवमिति ।

 ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते अभिधाव्यापारगुणवृत्त्यादेः। तस्यैव साम-

बालप्रिया

रमित्यर्थः। पूर्वमुपक्षिप्तमिति। तथाविध इत्यादिग्रन्थेनोपन्यस्तमित्यर्थः। एतदेवेति। उक्तमेवेत्यर्थः । तद्धीत्यादिग्रन्थेन सह तदेवमित्यादिग्रन्थस्यार्थं विवृण्वन्नाह-यत इत्या- दि । क्वचिदत्यस्य विवरणम्-अभिप्रायादाविति । एवमुपर्यपि बोध्यम् । क्वचिद्रूपा- न्तरेणेति वृत्तिग्रन्थस्य विवरणं प्रत्यक्षेणेत्यादि । तदेवमित्यादेर्विवणं-तत एव तेभ्य इत्यादि । यत एव हि अभिप्रायदिविषयं शब्दस्य व्यञ्जकत्वमनुमानेनानुमित्या । दीपा- लोकादिगतं घटादिविषयं व्यञ्जकत्वं प्रत्यक्षेण घटादिचाक्षुषज्ञानेन । गीतध्वन्यादिगतं सविषयं व्यञ्जकत्वं कारणत्वेन रसनिष्पादकत्वेन । विवक्षितान्यपरगतं व्यञ्जकत्वमभि. धया । अविवक्षितवाच्यगतं व्यञ्जकत्वं गुणवृत्या च अनुगृह्यमाणं दृष्ट, तत एवेत्यर्थः । व्यञ्जकत्वानुग्राहकत्वमेवैतेषां, न तु तत्ताद्रूप्यमिति भावः। तेभ्यस्सर्वेभ्य इति । अनुमानादिरूपेभ्य इत्यर्थः । विलक्षणमित्यादि । अनेनायं प्रयोगः प्रदर्शितः-विमतं व्यञ्जकत्वमनुमानादिप्रकारेभ्यो विलक्षणं तेषु व्यावर्तमानेष्वपि अनुवर्तमानतयावभा• समानत्वात् , यद्येषु व्यावर्तमानेष्वप्यनुवर्तमानतयावभासते तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति । तदाहेति । तद्वैलक्षण्यमाहेत्यर्थः ।

 नन्वित्यादि । प्रसिद्धस्याभिधाव्यापारगुणवृत्यादे रूपसकोचः किमर्थं क्रियत इति सम्बन्धः । व्यञ्जकत्वस्यातिरिक्तस्य कल्पनेनेति शेषः । गुणवृत्यादेरित्यादिपदेन लक्षणायाः परिग्रहः । तर्हि कथं वक्तव्यमित्यत्राह-तस्यैवेत्यादि । तस्यैव अभि. धाव्यापारादेरेव । सामग्रयन्तरेति । प्रतिपत्तृप्रतिभावक्तृवैशिष्टयादिज्ञानादिरूपे-