पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५५
तृतीयोद्द्योतः


ताहानिस्तब्यङ्गयस्यापि । काव्यविषये च व्यङ्गयप्रतीतीनां सत्यासत्य। निरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव सम्पद्यते । तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्गयप्रतीतिरिति न शक्यते वक्तुम् ।

 यत्त्वनुमेयरूपव्यङ्गयविषयं शब्दानां व्यञ्जकत्वं तद्ध्वनिव्यवहारस्या-


लोचनम्

न त्ननेन नः प्रयोजनमित्याहुः । काव्यविषये चेति। अप्रयोजकत्वमिति। न हि तेषां वाक्यनामाग्निष्टोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्वि- ष्यते, प्रीतिमात्रपर्यवसायित्वात् । प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्ग- त्वात् । एतच्चोक्तं वितत्य प्राक् । उपहासायैवेति । नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीति परामर्ष्टुं नालमित्येष उपहासः ।

 नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानत्वम् ; यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपनूयत इत्याशङ्कयाह-यत्त्वनुमेयेति । तद्व्यञ्ज-. कत्वं न ध्वनिलक्षणमभिप्रायव्यतिरिक्तविषयाव्यापरादिति भावः । नन्वभिप्रायविषयं यद्वयञ्जकत्वमनुमानै कयोगक्षेमं तच्चेन्न प्रयोजकं ध्वनिव्यवहारस्य तर्हि किमर्थं

बालप्रिया

तेषां काव्यरूपाणाम् । अग्निष्टोमादिवाक्यवदिति । वैधर्म्येण दृष्टान्तः । प्रवर्तकत्वायप्रवृत्युपधायकत्वसम्पादनाय । अन्विष्यते विचार्यते । प्रीतिमात्रेति । मात्रशब्देन प्रवर्तकत्वव्युदासः । कुतः प्रीतिमात्रपर्यवसायित्वमित्यत आह-प्रीते. रित्यादि । उक्तमिति । रसस्वरूपनिरूपणावसर इति भावः । उपहासस्वरूपमाह- नायमित्यादि । शुष्केति । शुष्कस्य तर्कस्यानुमानस्योपक्रमेण कर्कशहृदयः अर- सिक इत्यर्थः । प्रतीतिमिति । काव्यजन्यप्रतीतिस्वरूपमित्यर्थः ।

 मा भूदिति । आलोकादौ व्यभिचारादिति भावः । इतीति । इत्येतदित्यर्थः । वृत्तौ तद्वयञ्जकत्वं ध्वनिव्यवहारस्याप्रयोजकमित्येवोक्तमप्रयोजकत्वे हेतुर्नोक्त इत्य. तोऽभिप्रेतं हेतुं दर्शयन्नाह-तदित्यादि । तव्द्यञ्जकत्वमिति । वक्त्रभिप्रायात्म- कानुमेयव्यङ्ग्यविषयं शब्दस्य व्यञ्जकत्वमित्यर्थः । न ध्वनिलक्षणं ध्वनिव्यवहार• विषयस्य लक्षणं न । अत्राव्याप्ति हेतुमाह-अभिप्रायेत्यादि । अभिप्रायो विवक्षा, तद्वयतिरिक्तो विषयो,रसाङ्लकारादिरूपो व्यङ्गयः तत्राव्यापाराद्वयापरणाभावादित्यर्थः । यत्राभिप्रायातिरिक्तं व्यङ्गयं ध्वनिव्यवहारविषये तस्मिन्नभिप्रायरूपानुमेयव्यङ्गयवि- षयस्य व्यञ्जकत्वस्याभावादव्याप्तेरिति यावत् । स्वीयपूर्ववचनव्याघातशङ्कामुद्भाव्या- वतारयति-नन्वित्यादि । अनुमानकैति । अनुमानेन सह एकयोगक्षेमतुल्यप्रका. >>