पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
सटीकलोचनोपेतध्वन्यालोके


 यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचि. त्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे सत्यपि न शब्दव्यापारविषय.


लोचनम्

देव । यदाहुः--

'आप्तवादाविसंवादसामान्यादत्र चेदनुमानता' इति ।

 न चैतावता वाच्यस्य प्रतीतिरानुमानिकी किं तु तद्गतस्य ततोऽधिकस्य सत्य. त्वस्य तद्वयङ्गयेऽपि भविष्यति । एतदाह-यथा चेत्यादिना । एतच्चाभ्युपगम्यक्तं

बालप्रिया

वाच्यस्यापीत्यपिशब्देन व्यङ्ग्यस्य परिग्रहः । यदाहुरिति । वाक्याधिकरणे श्लोक- वार्तिककृत इति शेषः । आप्तेति । मुद्रिततत्पुस्तके त्वेवं पाठः-"आप्तवादाविसंवादा- दत्र चेदनुमानते”ति । अस्यावशिष्टन्तु-

"निर्णयस्तावता सिद्धयेबुद्धद्युत्पत्तिर्न तत्कृता ।
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् ॥
वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरन्ततः ।
तत्र चेदाप्तवादेन सत्यत्वमनुमीयते ॥
वाक्यार्थप्रत्यययस्यात्र कथं स्यादनुमानतेति ।

 आप्तवादाविसंवादादिति हेतुकथनम् । अत्रेति । वाक्यार्थबुद्धावित्यर्थः । अनु- मानता अनुमितित्वम् । चेदित्यनन्तरं नेति शेषः। अत्र हेतुमाह–'निर्णयस्ता- वते'त्यादि । एभिर्वचनैर्वाक्यार्थस्य सत्यत्वमेवाप्तोक्तत्वरूपानुमानेन निश्चेतव्यमिति लभ्यत इति भावः। 'आप्तवादाविसंवादस्सामान्यादनुमानत' इति पाठो बहुषु ग्रन्थेषु दृश्यते । तस्यायमर्थः-आप्तवादस्य आप्तवचनस्य यस्स्वार्थविषयोऽविसंवादः सत्यत्वं, सत्यार्थविषयकत्वमिति यावत । सः सामान्यादनुमानतः आप्तवादत्वाद्यनु- मानगम्य इति । ननु तर्हि वाच्यप्रतीतिरप्यानुमानिक्येवाश्रीयतामित्यत्राह-न चेत्यादि । तत् किमत्रानुमानिकी प्रतीतिरेव नास्ति, अस्तीत्याह-किन्वित्यादि । सत्यत्वस्येति । प्रतीतिरानुमानिकीत्यनुषङ्गः । तद्व्यङ्दयेऽपि भविष्यतीति । आनुमानिकं सत्यत्वं व्यङ्गयार्थेऽपि भविष्यतीत्यर्थः । 'व्य ङ्गयोऽर्थश्शब्देन प्रतिपाद्यते तस्य सत्यत्वन्त्वनुमानगम्यमिति भावः । एतच्चेति । यथाचेत्यादिग्रन्थेनोक्तं व्यङ्गयस्यानुमानिकं सत्यत्वमित्यर्थः । अभ्युपगम्येति । प्रयोजन वत्वं वस्तुतोऽ विद्यमानमपि विद्यमानं कृत्वेत्यर्थः । जप्रयोजकत्वमुपपादयति-न हीत्यादि ।


 १. श्लोकवा., १. १. ७.