पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५३
तृतीयोद्द्योतः


भिप्रायरूप एव व्यङ्गये लिङ्गतया शब्दानां व्यापारः । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्नभिप्रायरूपेऽनभिप्रायरूपे च वाच. कत्वेनैव व्यापारः सम्बन्धान्तरेण वा । न तावद्वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वमेव । न च व्यञ्जकत्वं लिङ्गस्वरूपमेव आलोकादिष्वन्यथा दृष्टत्वात् । तस्मात्प्रतिपाद्यो विषयः शब्दाना न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपा- द्यस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकरेव क्रिय. माणानामभावः प्रसज्येतेति । एतच्चोक्तमेव ।


लोचनम्

र्थस्य विशेषणत्वेन भाति । प्रतिपाद्यस्येति । अर्थाद्वयङ्गयस्य । लिङ्गित्व इति । अनुमेयत्व इत्यर्थः । लौकिकैरेवेति । इच्छायां लोको न विप्रतिपद्यतेऽर्थे तु विप्रति- पत्तिमानेव।

 ननु यदा व्यङ्गयोऽर्थः प्रतिपन्नस्तदा सत्यस्वनिश्चयोऽस्यानुमानादेव प्रमाणान्तरात् क्रियत इति पुनरप्यनुमेय एवासौ । मैवम् ; वाच्यस्यापि हि सत्यत्वनिश्चयोऽनुमाना-

बालप्रिया

रयति वृत्तौ-'प्रतिपाद्यस्येत्यादि । प्रतिपाद्यस्यैत्येतत्प्रकृतानुगुणं व्याचष्टे लोचने- अर्थाद्वयङ्गयस्येति । ननु कथं विप्रतिपत्तिविषयत्वावगमादननुमेयत्वनिश्चयः, अनु. मेयेऽपि विप्रतिपत्तिसम्भवादित्यत आह-इच्छायामित्यादि । इच्छायां विवक्षाया- याम् । अर्थ विवक्षाविषयाथें । विप्रतिपत्तिमानेवेति । सत्यत्वादिविप्रतिपत्ति- मामेवेत्यर्थः । विमतोऽर्थो नानुमेयः विप्रतिपत्तिविषयत्वाद्वयतिरेकेण वक्तृविवक्षा- वदिति प्रयोगः ।

 यथा चेत्यादिग्रन्थमवतारयति-नन्वित्यादि । प्रतिपन्न इति । वाच्यार्थप्रती- तिपूर्वकं शब्दादवगत इत्यर्थः । अस्य प्रतिपन्नस्य व्यङ्गयार्थस्य । अनुमानादेवेत्य- स्यानन्तरं प्रमाणान्तरादिति च क्वचिदग्रन्थे पाठः । क्रियत इति । प्रतिपत्तृभिरिति शेषः । शब्दस्य संवादकप्रमाणान्तरसहकृतस्यैव स्वार्थे प्रामाण्यमिति भावः । इती. ति हेतौ । पुनरित्यादि । प्रतिपाद्यस्य व्यङ्गयस्य शब्दापेक्षया लिङ्गित्वाभावेऽपि संवा- दकप्रमाणान्तरापेक्षया लिङ्गित्वं भवत्येवेति भावः । पूर्वं शब्दादर्थस्यावगमः पश्चात्तत्र संवादकस्यानुमानस्य प्रवृत्तिः, अर्थस्वरूपं हि शब्दस्य विषयः, अनुमानस्य तु तद्गतं सत्यत्वमित्यनुमानस्य न शब्दावगतार्थानुमापकत्वमिति समाधत्ते-मैवमित्यादि ।