पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५२
सटीकलोचनोपेतध्वन्यालोके


। सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानु- मेयान्तरवत् व्यङ्ग्यश्वार्थों वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य सम्बन्धी भवत्येव । साक्षादसाक्षाद्भावो हि सम्बन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रागेव दर्शितम् । तस्माद्वक्र-


लोचनम्

पान हि निश्चयस्वरूपमेवेति भावः । उपाधित्वेनेति । वक्रत्रिच्छा हि वाच्यादेर-

बालप्रिया

त्यादि । केनचिल्लिङ्गेन कस्यचिदर्थस्यानुमितिर्निश्चयरूपैव भवतीत्यर्थः । एवकारेण तदुत्तरन्तद्विषयकविषयकसंशयो व्यवच्छिद्यते । सन्देहपूर्विका ह्यनुमितिः अर्थेनाव्य- भिचारिण एव हेतोर्गमकत्वञ्चेत्यभिप्रायः । ननु व्यङ्गयनाभिमतस्यार्थस्य शब्देन सम्बन्धे सति तत्र व्यापारसिद्धद्यति, स एव नेत्याशङ्कयामुक्तमेव स्मारयति वृत्तौ 'व्यङ्गयवार्थः इत्यादि। वाच्यसामर्थ्याक्षिप्ततयेति हेतौ तृतीया। अनेन परम्परासम्बन्धः प्रदर्शितः । 'वाच्यवदिति। वाच्येन तुल्यमित्यर्थः। वाच्य इवेति यावत् । ननु वाच्य- स्य साक्षात्सम्बन्धः व्यङ्ग्यस्य तु तद्द्वारक इत्यत आह-साक्षादित्यादि । 'अप्रयो जक' इति । अत एव संयोगसंयुक्तसमवायादीनां सन्निकर्षत्वाभिधानं सङ्गच्छत इति भावः । व्यङ्ग्यस्य वाच्यसामथ्याक्षिप्ततया तेन सह सम्बन्धस्य वाच्यघटितत्वमुक्तं द्रढीकर्तुं पूर्वोक्तं स्मारयति-'वाच्येत्यादि । प्रकृतमर्थवैविध्यप्रतिपादनं निगमयति- 'तस्मादित्यादि । 'वक्त्रभिप्रायरूपे' विवक्षारूपे । एवकारेण तद्विषयीकृतार्थस्य व्यवः च्छेदः । लिङ्गतयेत्यादि । शब्दरूपलिङ्गज्ञाप्यत्वमित्यर्थः । तद्विषयी ति । शब्दानां व्यापार इत्यनुषङ्गः । वक्त्रभिप्रायविषयोऽर्थस्तु शब्दप्रतिपाद्य इत्यर्थः । 'प्रतीयमाने तस्मिन्निति । शब्दप्रतिपाद्ये व्यङ्गय इत्यर्थः । वाचकत्वेनेत्यादिविकल्प्याद्यं निषेधति- 'न तावदिति । 'सम्बन्धान्तरेणे ति। सम्बन्धान्तरेण यो व्यापारस्स व्यञ्जकत्वमेवेत्यर्थः । पूर्वोक्तं स्मारयति-'न चेत्यादि । 'अन्यथादृष्टत्वादिति । लिङ्गत्वं विना व्यञ्जकत्वस्य दृष्टत्वादित्यर्थः । उपसंहरति--तस्मादिति । प्रतिपाद्यो विषय' इति । व्यङ्गय इत्यर्थः । 'लिङ्गित्वेन' लिङ्गलिङ्गिभावेन । 'न सम्बन्धीति । व्यङ्गयत्वेनाभिमतोऽर्थो न शब्दस्य लिङ्गलिङ्गिभावेन सम्बन्धी शब्दप्रतिपादावाद्वाच्यवदित्यनुमानमनेन दर्शि- तम् । उक्तमेव दर्शयितुमाह-'यो ही'त्यादि । तेषां शब्दानाम् । 'यथा' दर्शितो विषयः विवक्षालक्षणः । 'स' इति । विवक्षालक्षणो विषय इत्यर्थः । 'उपाधित्वेनेति । प्रतीयत इत्यनुषङ्गः । उपाधिशब्दोऽत्र व्यावर्तकपर्याय इत्याशयेन व्याचष्टे लोचने- वक्त्रिच्छेत्यादि । विशेषणत्वेन भातीति । अनेन वक्त्रायमर्थो विवक्षित इति प्रतीतौ विवक्षा ह्यर्थस्य विशेषेणत्वेन भासते । तस्मादित्युक्तं द्रढयितुं पूर्वोक्तमेव स्मा-