पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५१
तृतीयोद्द्योतः


पेक्षया कयाचित् । स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धा. न्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्दैर्लिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यापारः स्यात्तच्छब्दार्थे


लोचनम्

त्वन्यैव संकेतस्फुरणादिका तन्न तत्र शब्दो लिङ्गम् । इतिकर्तव्यता च द्विधा-एकया- भिधाव्यापारं करोति द्वितीयया व्यञ्जनाव्यापारम् । तदाह-तत्रेत्यादिना । कया- चिदिति । गोपनकृतसौन्दर्यादिलाभाभिसन्धानादिकयेत्यर्थः । शब्दार्थ इति । अनु-

बालप्रिया

तदादिकेत्यर्थः । उपसंहरति-तदित्यादि । तत् तस्मात् । तत्र प्रतिपाद्यार्थे विषये। शब्दो लिङ्गविधया नार्थप्रतिपादकः पक्षधर्मत्वाद्यनुसन्धानानपेक्षया तत्प्रति- पादकत्वाचक्षुरादिवदित्यनुमानमत्र बोध्यम् । प्रतिपाद्यद्वैविध्ये निमित्तन्नोक्तं वृत्तावि- त्यतश्शब्दरूपकरणेतिकर्तव्यताद्वैविध्यं तन्निमित्तमिति दर्शयति-इतिकर्तव्यते. स्यादि । एकयेति । सङ्केतस्फुरणादिरूपयेत्यर्थः। अभिधाव्यापारमिति । सङ्केति- तार्थबोधनमित्यर्थः । द्वितीययेति । वक्तृवैशिष्टयादिज्ञानादिरूपयेत्यर्थः। व्यञ्ज- नाव्यापारमिति । कस्यचिदर्थस्य व्यञ्जनमित्यर्थः । करोतीत्यनुषङ्गः । शब्द इति शेषः । वृत्तौ 'स्वशब्दानभिधेयत्वेनेति । स्वशब्दाभिधेयत्वं विनेत्यर्थः । अर्थ प्रकाश. यितुं समीहत इत्यनुषङ्गः । अत्र हेतु:-'प्रयोजनेत्यादि । प्रयोजनापेक्षयेत्येतद्वयाचष्टे लोचने-गोपनेत्यादि । गोपनकृतं यत्सौन्दर्यं सूक्तिचारुत्वं तदादेर्यो लाभो निष्पत्ति- स्तदभिसन्धानादिकयेत्यर्थः । वृत्तौ ‘स वि'त्यादि । 'द्विविधोऽपि' वाच्यो व्यङ्गयश्च । 'न लिङ्गितयेत्यादि । व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गज्ञाप्यो न भवतीत्यर्थः । कथन्तर्हि भासत इत्यत्राह-'अपि त्वित्यादि । द्विविधोऽपीत्यादिशब्दानामित्य- न्तस्यानुषः । कृत्रिमेणेत्यादिमतभेदकथनम् । 'सम्बन्धान्तरेणेति । अभिधादिक- पसम्बन्धविशेषेण हेतुनेत्यर्थः । न लिङ्गितया प्रकाशत इत्यत्र हेतुमाह-'विवक्षे त्यादि । उक्तमेव साधयति-'यदि हीत्यादि । 'तत्र प्रतिपिपादयिषितेऽर्थे । “लिङ्गतया शब्दानां व्यापारः लिङ्गलिङ्गिभावरूपः शब्दसम्बन्धः । 'स्याद्यदिः प्रतिपिपा- दयिषितार्थों 'व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गानुमेयो यदि स्यादित्यर्थः । 'तत्। तर्हि । 'शब्दार्थे' शब्दप्रतिपादितार्थे । 'सम्यगिरत्यादि । अयमर्थस्सत्यः, अय- मर्थो मिथ्या इत्यादयो विरुद्धा वादाः । अयमर्थस्सत्यो मिथ्या वेत्यादिसंशयाश्च वस्तुतः प्रवर्तन्ते तत्प्रवृत्तिर्न स्यादित्यर्थः । 'धूमादो ति । धूमादिलिङ्गेनानुमितं यदनुमेयान्तरं वह्न्यादि तस्मिन्निवेत्यर्थः तत्र यथा तद्विवादा न प्रवर्तन्ते तथे. त्यर्थः । नन्वनुमितेऽर्थे कुतो विवादाप्रवृत्तिरित्यतो भावमाह लोचने-अनुमानमि.