पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५०
सटीकलोचनोपेतध्वन्यालोके


ब्देनार्थ प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिवेयत्वेन प्रयोजना-


लोचनम्

प्रतिपत्तिस्तावान्विषय इत्युक्तः। तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् । यस्तु प्रतिपिपादयिषायां कर्मभूतोऽर्थस्तत्र शब्दः करणत्वेन व्यवस्थितः न त्वसावनुमेयः, तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते । न च तन्न शब्दस्य करणत्वे चैव लिङ्गस्येतिकर्तव्यता पक्षधर्मत्वग्रहणादिका सास्ति, अपि

बालप्रिया

मिति । उच्चरितशब्दजन्यप्रतिपत्तिविषय इत्यर्थः । वृत्तौ 'आद्येति । शब्दस्वरूपप्र- काशनेच्छेत्यर्थः । 'शाब्देति । शाब्दः शब्दकरणको यो व्यवहारोऽर्थप्रत्ययस्तस्याङ्ग- मित्यर्थः । 'प्राणित्वे ति । शब्दस्वरूपप्रकाशनेच्छयोच्चरितेन शब्देनायं प्राणीति श्रोतुर्या प्राणित्वमात्रस्य प्रतिपत्तिः मात्रपदेनार्थस्य व्यवच्छेदः सा फलं यस्यास्सेत्यर्थः। 'द्वितीयेति । शब्देनार्थप्रकाशनेच्छेत्यर्थः । 'शब्देति । शब्दविशेषस्य प्रतिपिपादयिषि- तार्थबोधानुकूलस्य वाक्यस्य यदवधारणं वक्तुरनुसन्धानं तस्मिन्नवसिता पर्यवसिता तदुत्पादनेन कृतार्थेति यावत् । अत एव व्यवहितापि शाब्दबोधं प्रति व्यव. धानवत्यपि । यद्वा-व्यवहितापि शब्दविशेषावधारणावसितेति योजना । शब्दे. नार्थविशेषस्यावधारणे श्रोतुर्बोधे अवसिता.परम्परया तदुत्पादिकेति यावत् । तथा सतीत्यर्थः । 'शब्देति । शब्दः करणं यस्य तथाभूतो व्यवहारश्शाब्दबोधः, तस्य निबन्धनं निमित्तमित्यर्थः । ते तु द्वे इति पूर्वोक्ताद्विप्रकाराविवक्षेत्यर्थः । 'अनुमेयो विषय' इति । अयमेतद्विवक्षुः एवंविधशब्दप्रयोक्तृत्वादित्याद्यनु मानमत्र बोध्यम् । तत्रानुमैय इत्यादिग्रन्थस्यार्थन्दर्शयन्नवतारयति लोचने- तत्रेत्यादि । शब्दप्रयुयुक्षां शब्दप्रयोगेच्छा । अनुमयेति । कार्येण तत्तः च्छब्दप्रयोगेणेति शेषः । प्रतिपिपादयिषायां कर्मभूत इति । दयिषित इत्यर्थः । तत्रेति । प्रतिपिपादयिषितत्वविशिष्टेऽर्थे विषय इत्यर्थः । करणत्वेन व्यवस्थित इति । प्रतिपादन प्रति करणत्वात्तथाविधार्थ प्रति करणत्वं बोध्यम् । न लिङ्गत्वेनेति भावः । अत एवाह-न त्वित्यादि । असौ प्रतिपिपाद- यिषितोऽर्थः । तद्विषया अर्थविषयिका। न त्वावनुमेय इत्युक्तमेव साधयति- न चेत्यादि । तत्र प्रतिपाद्यार्थे विषये । पक्षधर्मत्वग्रहणादिका लिङ्गस्येतिकर्तव्यता या सा तत्र शब्दस्य करणत्वेन चास्तीति योजना। लिङ्गस्य लिङ्गत्वेनाभिमतस्य धूमादेः। इतिकर्तव्यता सहकारिकारणम् । लिङ्गेतिकर्तव्यताया अभावं प्रतिपाद्य शब्देतिकर्तव्यतायास्सद्भावमाह-अपि त्वित्यादि । अन्यैवेति । इतिकर्तव्यता. स्तीत्यनुषङ्गः । सङ्केतेति । तत्तच्छब्दस्य तत्तदर्थे यस्सङ्केतस्तस्य स्फुरणं स्मरणं प्रतिपिपा-