पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४९
तृतीयोद्द्योतः


यत्वं च तस्यास्तीति नास्त्येवावयोर्विवादः । न पुनरयं परमार्थो यद्व्य. ञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्गयप्रतीतिश्च लिङ्गिप्रतीतिरेवेति ।

 यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितं त्वया वक्राभिप्रायस्य व्यङ्गय- त्वेनाभ्युपगमात्तत्प्रकाशने शब्दाना लिङ्गत्वमेवेति तदेतद्यथास्माभिरभि- हितं तद्विभज्यं प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानाम्- अनुमेयः प्रतिपाद्यश्च । तत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्द. स्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा। तत्राद्या न शाब्दव्यवहाराङ्गम् । सा हि प्राणित्वमात्रप्रतिपत्तिफला । द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् । ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रति. पादनसमीहाविषयीकृतोऽर्थः ।

 स च द्विविधः--वाच्यो व्यङ्गयश्च । प्रयोक्ता हि कदाचित्स्वश-


लोचनम्

शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः । न पुनरिति । प्रदीपालोकादौ लिङ्गिलिङ्गभावशून्योऽपि हि व्यङ्गयञ्जकभावोऽस्तीति व्यङ्गयव्यञ्जकभावस्य लिङ्गि- लिङ्गभावोऽव्यापक इति कथं तादात्म्यम् । विषय इति । शब्द उच्चरिते यावति

बालप्रिया

इति यदयं पुनर्न परमार्थ इति सम्बन्धः । अत्राभिप्रायमाह लोचने-प्रदीपेत्यादि । लिङ्गीति । लिङ्गिलिङ्गभावेन लिङ्गिनिरूपितलिङ्गत्वेन शून्यः विना कृतः तदसमाना- धिकरण इति यावत् । शून्ये इति पाठे प्रदीपालोकादावित्यस्य विशेषणं तत् । व्यङ्ग्य- व्यञ्जकभाव इति । घटादितत्तद्विषयेण सहेति शेषः। इतीति हेतौ। लिङ्गिलिङ्ग- भावो व्यङ्गयव्यञ्जकभावस्य व्यापको नेति सम्बन्धः । नञ्रहितपाठे त्वव्यापक इति छेदः। कथन्तादात्म्यमिति । यदि हि व्यङ्गयव्यञ्जकभावो लिङ्गिलिङ्गभाव एव स्यान्न तदतिरिक्तः, तर्हि यत्र यत्र व्यङ्गयव्यञ्जकभावस्तत्र तत्र लिङ्गिलिङ्गभावोऽपि भवेत् , न चासावस्ति प्रदीपादौ व्यभिचारदर्शनादतस्तयोरैक्यान्न भवतीत्यर्थः ।

 ननु वक्त्रभिप्रायस्य व्यञ्जकत्वन्तु शब्दस्य लिङ्गत्वमेव वक्तृज्ञानानुमापकत्वं शब्दस्येति वदतां प्राभाकराणां मतस्य संवादकत्वादित्याशङ्कायामुक्तं वृत्तौ 'यदपी'- त्यादि । अभिहितमित्यस्यानन्तरं तथेति शेषः । विषयशब्दस्यार्थे प्रसिद्धत्वात्तस्य चात्रायोगाद्वयाचष्टे लोचने-शब्द इत्यादि । यावतीति । यावत्यर्थ इत्यर्थः । तावा-

 ५७ धव०