पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
सटीकलोचनोपेतध्वन्यालोके


ब्रूयात् , अस्त्यतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यं यस्मा- द्वक्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्रभिप्राय. श्वानुमेयरूप एव ।

 अत्रोच्यते- नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् । वाच. कत्त्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिर- भ्युपगतम् । तस्य चैवमपि न काचित् क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्व- मस्तु अन्यद्वा । सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविष.


लोचनम्

हारेणोपलक्षितस्तां परिजीहीर्षुरित्यर्थः । अस्तीति । व्यञ्जकत्वं नापहनूयते तत्त्व. तिरिक्तं न भवति अपि तु लिङ्गिलिङ्गभाव एवायम् । इदानीमेवेति । जैमि- नीयमतोपक्षेपे।

 यदि नाम स्यादिति । प्रौढवादितयाभ्युपगमेऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति-शब्देति । शब्दस्य व्यापारः सन् विषयः शब्दव्यापारविषयः, अन्ये तु

बालप्रिया

भावमाह लोचने-व्यञ्जकत्वमित्यादि । नापह्वूयत इति । स्वरूपत इति शेषः । तत्तु व्यञ्जकत्वन्तु । अतिरिक्तं लिङ्गत्वाद्भिन्नम् । लिङ्गिलिङ्गभाव एव लिङ्गिनि- रूपितलिङ्गत्वमेव । अयं व्यञ्जकत्वम् ।

 स्यादितीति । इत्यनेनेत्यर्थः । प्रौढेति । परोक्तं स्वीकृत्यापि स्वसिद्धान्त- स्थापनाय यो वादस्स प्रौढवादः तं वदतीति प्रौढवादी, तस्य भावस्तत्ता तये- त्यर्थः । स्वपक्ष इति । व्यञ्जकत्वं लिङ्गत्वादनतिरिक्तमिति पूर्वपक्षिपक्ष इत्यर्थः । न सिद्धयतीति। वक्ष्यमाणयुक्त्येति भावः । वृत्तौ 'तत् किं नः छिन्नमित्युक्तस्यैष विवरणम्-'वाचकत्वे'त्यादि । 'प्रसिद्धे'ति । प्रसिद्धो यश्शब्दस्य प्रकारो धर्मोs. भिधा लक्षणा च तद्विलक्षणत्वमित्यर्थः ।शब्दव्यापारत्वमिति वक्तव्ये शब्द: व्यापारविषयत्वमित्युक्तिरसङ्गतेत्यतो व्याचष्टे लोचने-शब्देत्यादि । इति । सचेतोबुद्धिविषय इत्यर्थः । तदास्वाद्य इति यावत् ।व्याख्यानान्तरं दर्शयति-अन्य इति । वृत्तौ 'तस्येति । व्यञ्जकत्वस्येत्यर्थः । व्यञ्जकत्वं लिङ्गत्व- मस्त्वित्युक्त्या सिद्धं नस्समीहितमिति मन्यमानं पूर्वपक्षिणं प्रत्याह-'न पुनरि'त्यादि । विषय