पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४७
तृतीयोद्योतः


यत्सर्वेषामनुभवसिद्धमेव तत्केनापहनूयते । अशब्दमर्थं रमणीयं हि सूच- यन्तो व्याहारास्तथा व्यापारा निबद्धाश्चानिबद्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते । तानुपहास्यतामात्मनः परिहरन् कोऽतिसन्दधीत सचेताः


लोचनम्

ष्विति भावः । अशब्दमिति । अभिधाव्यापारेणास्पृष्टमित्यर्थः । रमणीयमिति । यगोप्यमान तयैव सुन्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोज- नमुक्तम् । निबद्धाः प्रसिद्धाः। तानिति व्यवहारान् । कः सचेता अतिसन्दधीत नाद्रियेतेत्यर्थः । लक्षणे शत्रादेशः आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परि.

बालप्रिया

त्यर्थः । अत्र हेतुः-'अशब्दमित्यादि । नास्ति शब्दोऽभिधायको यस्येति व्युत्प- त्तिमभिप्रत्याशब्दमित्येतद्वयाचष्टे लोचने-अभिधेत्यादि । अशब्दत्वं रमणीयत्वे हेतुरिति दर्शयन्विवृणोति-यदित्यादि । वस्नान्तप्रावृतकामिनीकुचकलशदृष्टान्तसिद्ध. मेतदिति भावः । सुन्दरी भवतीति रमणीयपदव्याख्यानम् । इत्यनेनेति । अशब्दत्व. रमणीयत्वविशेषणद्वयेनेत्यर्थः । ध्वन्यमानतायामिति । अर्थस्येति शेषः । ससा- धारणेति । प्रतीतेरसाधारणत्वमास्वाद्यमानात्मकत्वम् । वृत्तौ 'व्याहारा' इति । व्यव. हारा इति च पाठः । 'तथा व्यापारा' इति । येनार्थस्याशब्दत्वं रमणीयत्वञ्च भवति, तथाभूतो व्यापारो व्यञ्जकत्वलक्षणो येषां तथाभूता इत्यर्थः । 'निबद्धाः क्तकादि- रूपाः । 'अनिबद्धाः' गद्यादिरूपाः। लोचने-प्रसिद्धा इति । मुक्तकादिरूपत्वेन प्रसिद्धा इत्यर्थः । अतिसन्दधीतेत्येतत्प्रकृतानुगुणं विवृणोति-नाद्रियेतेति । सचेता इति विशेष्यानुसारेण परिहरन्नित्येतद्वयाचष्टे-लक्षण इति । लक्षणरूपार्थ इत्यर्थः । परिहरणस्यादरणफलत्वाल्लक्षणत्वम् । शत्रादेश इति । परिहरन्नित्यत्रेति शेषः । तेन सिद्धमर्थमाह-आत्मन इत्यादि । उपसहनीयता विद्वत्परिषत्कर्तृकपरिहास- विषयता । परिहारेण प्रागभावपरिपालनेन । फलितमाह-तामित्यादि । वृत्तौ 'श्रूयादिति । कश्चिदिति शेषः। सम्भाव्यन्तद्वचनमाह-'अस्तीत्यादि । कथमित्य- त्राह-व्यञ्जकत्वमित्यादि। 'तच' गमकत्वञ्च । 'लिङ्गत्वं ज्ञापकत्वम् । 'अत' इति । गमकत्वस्य लिङ्गत्वरूपत्वादित्यर्थः । इतीति हेतौ । 'तेषां' शब्दानां व्यङ्गयव्यञ्जक- भावो लिङ्गिलिङ्गभाव एवेति योजना । एवकारार्थकथनं 'नापरः कश्चिदिति । उक्तं साधयति-'अतश्चेत्यादि । 'अतः' वक्ष्यमाणाद्धेतोः। चकारो युक्त्यन्तरसमुच्चायकः । 'एतदिति । व्यङ्गयव्यञ्जकभावस्य लिङ्गिलिङ्गभावादनतिरिक्तत्वमित्यर्थः । 'अवश्यमेव बोद्धव्यामिति । अतिरिक्तत्वे प्रमाणाभावादिति भावः । अत इत्युक्तन्दर्शयति-'यस्मादि। त्यादि । ततः किमत आह-वक्त्रभिप्रायश्चेत्यादि । व्यञ्जकत्वमित्यादिग्रन्थस्य