पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४६
सटीकलोचनोपेतध्वन्यालोके


वसरः। अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिला:प्रवर्तन्ते न तु लौकिके । न हि नीलमधुरादिष्वशेषलोकेन्द्रियगोचरे बाधारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्तेप्रवर्तन्ते । न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति। तथैव व्यञ्जकत्वं वाच- कानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां


लोचनम्

काममस्तु संशयः शब्दस्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृतेऽपीति निश्चितैकरूपे कः संशयस्यावकाश इत्यर्थः । नैतन्नीलमिति नोले हि न विप्रतिपत्तिः, अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदं तुच्छ- दमिति तत्सृष्टावलौकिक्य एव विप्रतिपत्तयः। वाचकानामिति । ध्वन्युदाहरणे-

बालप्रिया

अक्षिनिकोचादेश्चक्षुरादीन्द्रियस्य चार्थप्रकाशकत्वे समानेऽप्याद्यस्यार्थेन सह सम्बन्धस्य साङ्कतिकत्वं द्वितीयस्यार्थेन सह सम्बन्धस्य नैसर्गिकत्वञ्च दृष्ट्वेर्थः । काममित्यादि। शब्दस्य वाचकत्वे किमिदं साङ्केतिकमाहोस्विन्नैसर्गिकमिति वाचकत्वधर्मिकस्संशयः कामं भवत्वित्यर्थः । यथा शब्दे नित्यानित्यत्वसंशयः । व्यञ्जकत्वमिति । तुशब्दो विशेषे । भावान्तरेष्विति । प्रदोपादिष्वित्यर्थः । न तु लौकिक इत्युक्तमुपपादयति वृत्तौ न ही'त्यादि । 'नीलमधुरादिषु' नीलमधुरादिद्रव्येषु । निर्धारणे सप्तमी । 'तत्त्वे' पदार्थे । 'विप्रतिपन्ना' इति । जना इति शेषः । उक्तमेव स्फुटयति-'नही'त्यादि । 'बाधारहितं सत्यम् । 'नील' नीलद्रव्यं घटादि। 'नीलमिति ब्रुवन्निति । इदमिति शेषः । 'अपरेणेत्यादि । एतन्न नीलमेतत्पीतमिति न हि प्रतिषिध्यत इति सम्ब- न्धः । लोचने भावमाह-नैतदित्यादि । नीले एतन्न नीलमिति विप्रतिपत्तिर्न हीति सम्बन्धः । लौकिकत्वादिति भावः । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः। अपि त्वित्याः दि । अपि त्वित्यलौकिक्य एव विप्रतिपत्तय इति सम्बन्धः । तत्प्रकारकथनं प्राधा- निकमित्यादि । इदमित्यनेन सर्वत्र जगद्विवक्षितम् । प्राधानिकं प्रधानस्य मूलप्र. कृतेर्विकारः । पारमाणवं परमाणुजन्यम् । ज्ञानमात्रं विज्ञानस्वरूपमेव । तुच्छं शून्यम् । अत्र क्रमेण सांख्यवैशेषिकविज्ञानवादिमाध्यमिकानाम्मतानि दर्शितानि । तत्सृष्टाविति । जगत्सृष्टिहेतावित्यर्थः । तद्दष्टाविति पाठे तु जगत्कारणदृष्टावित्य- र्थः । अलौकिक्य एव विप्रतिपत्तय इति । लौकिके विप्रतिपत्तीनामदर्शनादलौ- किके वस्तुनि तद्दर्शनाच्वान्वयव्यतिरेकाभ्यामलौकिकवस्तुविषयकत्वमेव तासां सिद्धमि- त्यर्थः । अलौकिक इत्यादिवृत्तिग्रन्थोऽनेन विवृतः । वृत्तावुपसंहरति-तथैवेत्यादि । 'तथैव' तथाभूतमेव, लोकिकर्मवेति यावत् । 'केनापह्रूयत' इति । सर्वैराद्रियत एवे.