पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४५
तृतीयोद्द्योतः


विरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति ।

 वाचकवे हि तार्किकाणां विप्रतिपतयः प्रवर्तन्ताम् , किमिदं स्वा. भाविकं शब्दानामाहोस्वित्सामयिकमित्याद्याः। व्यञ्जकत्वे तु तत्पृष्ठमा- विनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनाम.


लोचनम्

नन्वनुभवेन द्विचन्द्राद्यपि सिद्ध तच्च विमतिपदमित्याशङ्कयाह- ह-अविरोधश्चे-ति । अविद्यमानो विरोधो निरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य तेनानुभव- सिद्धश्चाबाधितश्चेत्यर्थः। अनुभवसिद्धं न प्रतिक्षेप्यं यथा वाचकत्वम् ।

 ननु तत्राप्येषां विमतिः। नैतत् ; न हि वाचकत्वे सा विमतिः, अपि तु वाचक- त्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह-वाचकत्वे हीति । नन्वेवं व्यञ्जकत्व- स्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्कयाह-व्यञ्जकत्वे त्विति । भावान्तरेति । अक्षिनिकोचादेः साङ्केतिकत्वं चक्षुरादिकस्यानादिर्योग्यतेति दृष्ट्वा

बालप्रिया.

मिति । यथा दीपादिः परिकल्पितनिजविषयादन्यं विषयमपि प्रकाशयति, तथा शब्दोऽपि सङ्केतितादन्यं विषयं प्रकाशयतीति तेषामप्यनुभवसिद्ध एवायं शब्दानां व्यञ्जकभाव इति भावः ।

 नन्वित्यादि । अनुभवेन दोषजनितेनानुभवेन । तच्च द्विचन्द्रादि च । तच्चे. त्यस्य स्थाने न च नेति च पाठः । परिहारानुगुण्येनाविरोधपदं व्याचष्टे-अविद्य- मान इत्यादि । निरोधः प्रतिबन्धः । फलितमाह-तेनेत्यादि । न प्रतिक्षेप्यं न विमतिपदम् । व्यञ्जकत्वं न विमतिपदमनुभवसिद्धत्वाद्वाचकत्ववदित्यनुमानम- नेन दर्शितम् ।

 अत्र दृष्टान्तस्य साद्धयवैकल्यशङ्कापरिहारपरतया वाचकत्वे हीत्यादिग्रन्थमवता. रयति-नन्वित्यादि । तत्रापि वाचकत्वेऽपि । एषां तार्किकाणाम् । नैतदिति । एतन्न युक्तमित्यर्थः । अत्र हेतुः-न हीत्यादि । वाचकत्वे धर्मिणि न विमतिः, किन्तु तत्र नैसर्गिकत्वादिधर्म एवेत्यर्थः। अतो न साध्य वैकल्यं दृष्टान्तस्येति भावः । धर्मान्तरमुखेनेति । नैसर्गिकत्वादिमुखेनेत्यर्थः । विप्रतिपत्तिविषयतापीति । न केवलमनुभवसिद्धतेत्यपिशब्दार्थः । वाचकत्वस्य विप्रतिपत्तिविषयत्वं व्यञ्जकत्वस्य तदभावश्च दर्शयन् भावमाह-अक्षीत्यादि। अक्ष्णोर्निकोचो विकासः । आदिपदेन सङ्कोचादिकं गृह्यते तस्य । साङ्केतिकत्वमिति । सङ्केतवत्त्वमित्यः। यद्वा-अर्थेन सह सम्बन्धस्य सङ्केतसिद्धत्वमित्यर्थः । योग्यतेति। चाक्षुषादिज्ञानकारणतेत्यर्थः । यथा भूषणसारे "इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथेति । इति दृष्ट्वेति ।