पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४४
सटीकलोचनोपेतध्वन्यालोके


तैः यैः सह किं विरोधाविरोधौ चिन्त्यते । कृत्रिमशब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामान्तराणामिवा.


लोचनम्

 एतदुक्तं भवति-वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किंचिदिच्छन्ति तत्र का कथा वाचकत्वव्यञ्जकत्वयोः, अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव । प्रथमोद्दयोते वितत्य निरूपितम् । एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य प्रमाणतत्त्वविदो तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह-कृत्रि. मेति । कृत्रिमः सङ्केतमात्रस्वभावः परिकल्पितः शब्दार्थयोः सम्बन्ध इति ये वदन्ति नैयायिकसौगतादयः। यथोक्तम्-'न सामयिकत्वाच्छब्दार्थप्रत्ययस्येति । तथा शब्दाः संकेतितं प्राहुरिति । अर्थान्तराणामिति । दीपादीनाम् ।

बालप्रिया

ताभिर्हेतुभिः ईश्वरत्वाद्विश्वपरिणमनसमर्थत्वात् । यद्वा-विश्वनिर्माणशक्तिर्माया, तस्या ईश्वरत्वाद्विश्वरूपेण परिणममानमायाधिष्ठानत्वादित्यर्थः । यैरित्यस्य परिनि- श्चितमित्यनेन सम्बन्धः । तेषामिति शेषः । वृत्तौ 'विरोधाविरोधाविति । पूर्वपक्ष- तया विरोधस्सिद्धान्ततया अविरोधश्च ।

 ननु वैयाकरणमतमाश्रित्य ध्वनिव्यवहारस्य प्रवृत्तत्वेऽपि वाचकलक्षणस्य शब्द- स्य वाचकत्वात्पृथग्व्यङ्जकत्वाङ्गीकारे विरोधाविरोधौ मीमांसकवच्चिन्तनीयाविति तैस्सह किमित्याद्युक्तमयुक्तमिति शङ्कायां तात्पर्यमाह-एतदुक्तमित्यादि । ब्रह्मपद इति । विद्यादशायामित्यर्थः । नेच्छन्तीति सम्बन्धः । अन्यदिति। ब्रह्मण इति शेषः । तत्र ब्रह्मपदे । का कथेति। कथापि नास्तीत्यर्थः । अतश्च कथं विरोधा. विरोधचिन्ताप्रसङ्ग इति भावः । व्यापारान्तरमिति । व्यञ्जकत्वमित्यर्थः । अभ्यु. पगतमेवेति । अतस्तत्रापि न विरोधाविरोधचिन्तावसर इति भावः । व्यापारान्तरं तैरम्युपगतमिति कुतोऽवगन्तव्यमित्यत आह-एतच्चेति । प्रथमोद्योत इति । ध्वनिलक्षणनिरूपण इति भावः । वृत्तमनुवदन्नवतारयति-एवमित्यादि । युक्तिविदा- मित्यस्यार्थकथनं प्रमाणतत्वविदो तार्किकाणामिति । सौगतादेपलक्षणमिदम् । सङ्के- तमात्रस्वभाव इति । सङ्केतस्समयः, चास्माच्छन्दादयमर्थो बोद्धव्य इत्यादी- च्छा । अस्य शब्दस्यायमर्थ इत्युपदेशस्स इति च केचित् । नेत्यादिप्रत्ययस्येत्यन्त न्यायसूत्रम् । शब्दो लिङ्गविधयार्थबोधक इति पूर्वपक्षस्य समाधानमिदम् । नेति । शब्दो लिङ्गविधयार्थबोधको नेत्यर्थः ।अत्र हेतुः-सामयिकत्वादित्यादि । शब्दादर्थस्य यः प्रत्ययो बोधस्तस्य सामयिकत्वात्सङ्केतमूलकत्वादित्यर्थः। सौगतव- चनमाह-शब्दा इत्यादि । शब्दानामयं व्यञकभावोऽनुभवसिद्ध एवेत्येतदुपपाद- नायार्थान्तराणामिवेति दृष्टान्तकथनं, तत्रार्थान्तराणामित्येतद्वयाचष्टे-दीपादीना-