पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ इति ॥

 पृथक्पृथगिति । परुषानुप्रासा नागरिका । मसृणानुप्रासा उपनागरिका, ललिता । नागरिकया विदग्धया उपमितेति कृत्वा । मध्यममकोमलपरुषमित्यर्थः । अत एव वैदग्ध्यविहीनस्वभावासुकुमारापरुषग्राम्यवनितासादृश्यादियं वृत्तिर्ग्राम्येति । तत्र तृतीयः कोमलानुप्रास इति वृत्तयोऽनुप्रासजातय एव । न चेह वैशेषिकवद्वृत्तिर्विवक्षिता, येन

बालप्रिया

उक्तासु। तिसृषु वृत्तिषु परुषादिषु । पृथक्पृथक सरूपाणां सजातीयानां व्यञ्जनानां न्यासः उपनिबन्धः तम्। अनुप्रासमुशन्ति इच्छन्ति । “शषाम्यामि”. त्यादिकारिकात्रयेण परुषदिवृत्तीनां स्वरूपमुक्तान्तद्वन्थे द्रष्टव्यम् ।

 पृथक् पृथगित्यंशं व्याचष्टे-परुषेत्यादि । परुषवर्णारब्धत्वात्परुषोऽनुप्रासो यस्यां वृत्तौ सा । परुषाया एव नागरिकेति संज्ञा । मसृणेति । मधुरवर्णारब्धत्वान्मसृणोऽनु- प्रासो यस्यां सा । अस्या नामद्वयमाह-उपनागरिका ललितेति । उपमिता नागरिकया उपनागरिकेत्यन्वर्था संज्ञेत्याह-नागरिकयेति । परुषानुप्रासः मसृणानु- प्रास इति पाठस्तु अनुप्रासवृत्योरैक्याभिप्रायेण योज्यः । वक्ष्यमाणग्राम्यवृत्तावनुप्रासस्य मध्यमत्वं दर्शयितुम्मध्यमशब्दार्थमाह-मध्यममकोमलपरुषमिति । मधुरवर्णभिन्नं परुषवर्णभिन्नञ्चेत्यर्थः । तदारब्धोऽनुप्रासो मध्यमानुप्रास इत्यर्थः । तदनुप्रासाया वृत्तेः ग्राम्यसंज्ञामुपादनपूर्वकमाह -अत एवेत्यादि । अत एव माधुर्यपारुष्यराहित्यादेव । वैदग्ध्येत्यादि । वैदग्ध्यविहीना स्वभावतः असुकुमारा अमधुरा, अपरुषा अनुद्वणस्वभावा च या ग्राम्यवनिता, तत्सादृश्यादित्यर्थः । तत्र तृतीयः कोम- लानुप्रास इति । उक्तेष्वनुप्रासेषु मध्यमानुप्रासः कोमलानुप्राससंज्ञकश्चेत्यर्थः । अनेन ग्राम्याया वृत्तेः रूढा कोमलसंज्ञा च भट्टोद्भटोक्ता दर्शिता । उपसंहरति-वृत्तय इत्यादि ।



१. शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता ।
परुषा नाम वृत्तिस्स्यात् ह्रबह्याद्यैश्च संयुता ॥
सरूपसंयोगयुतां मूर्ध्निवर्गान्त्ययोगिभिः ।
स्पशैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥
शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया ।
ग्राभ्यां वृत्तिं प्रशंसन्ति काव्येष्वाहतबुद्धयः ॥

                                  उद्भटका,, १.५-७.

२. 'अवादयः क्रुष्टाद्यर्थे तृतीयया' (वार्ति., १८७. चौ. सं. ) इति वार्तिकेन समास इत्यर्थः।

३. कोमलवर्णानुप्रासाभावेन योगार्थाभावादित्यर्थः ।