पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
प्रथमोद्योतः


ताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थगताश्चोपमादयः । वर्णसं. घटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते । तदनतिरिक्तवृत्तयो वृत्तयोऽपि


लोचनम्

चारुत्वहेतवश्व, तथा ध्वनिरपि तद्व्यतिरिक्तश्च चारुत्वहेतुश्च भविष्यतीत्यसिद्धो व्यतिरेक इत्यनेनाभिप्रायेणाह-तदनतिरिक्तवृत्तय इति । नैव वृत्तिरीतीनां तव्द्यतिरिक्तत्वं सिद्धम् । तथा ह्यनुप्रासानामेव दीप्तमसृणमध्यमवर्णनीयोपयोगितया परुषत्वललितत्व- मध्यमत्वस्वरूपविवेचनाय वर्गत्रयसम्पादनार्थ तिस्रोऽनुप्रासजातयो वृत्तय इत्युक्ताः, वर्तन्तेऽनुप्रासभेदा आस्विति । यदाह-

सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु ।

बालप्रिया

रेकीत्यर्थ इति केचित् । 'शब्दार्थशरीरमित्यादेः 'प्रतीयन्त' इत्यन्तस्य वृत्तिग्रन्थस्य सारा- र्थं व्याख्यायोत्तरग्रन्थं प्रकृतोपयोगं दर्शयन्नवतारयति-नन्वित्यादि। असिद्धोव्यति- रेक इति । यत् गुणालङ्कारव्यतिरिक्तं, तच्चारुत्वकारि नेति व्यतिरेकव्याप्तेर्गुणालङ्कारव्य- तिरिक्तासु चारुत्वहेतुतया सम्प्रतिपन्नासु वृत्तिरीतिषु व्यभिचारादसिद्धिरित्यर्थः । इत्य- भिप्रायेणेति । इतिशङ्कायामुत्तराभिप्रायेणेत्यर्थः । तदभिप्रायं विशदयति-नैवेत्यादि । तव्द्यतिरिक्तत्वं गुणालङ्कारव्यतिरिक्तत्वम् । वृत्तीनान्तावदनुप्रासालङ्कारान्तर्भावं दर्शयितुमाह-तथा ह्यनुप्रासानामेवेत्यादि । अनुप्रासानामेवेत्यस्य वर्गत्रयस म्पादनार्थमित्यनेन सम्बन्धः । तदपि किमर्थमित्यत्राह-परुषत्वेत्यादि । परुषत्वा- दिस्वरूपाणां विशिष्य प्रदर्शनार्थमित्यर्थः । तस्यापि फलमाह-दीप्तेति । दीप्तं रौद्रादौ रसे, मसृणं मधुरं शृङ्गारादौ, मध्यमं हास्यादौ, तथाविधं यद्वर्णनीयं विभा- वादि, तदुपयोगितया वर्णनीयविशेषोपयोगित्वेनानुप्रासविशेषोपादेयतासिद्धयर्थमि- त्यर्थः । अनुप्रासजातय इति । अनुप्रासानामाश्रयभूता जातय इत्यर्थः । विवरिष्यते चेदमुपरि । वृत्तय इत्युक्ताः वृत्तय इति व्यवहृताः । तत्र व्युत्पत्तिमाह-वर्तन्त इति । अनुप्रासभेदाः अनुप्रासविशेषाः । आस्विति। वृत्तिरित्यत्र वृतिधातोरधि- करणे क्तिन्निति भावः । यदाहेति । भट्टोद्भट इति शेषः । सरूपेति । एतासु


ध्वनिः, गुणालङ्कारव्यतिरिक्तत्वाभाववान् , चारुत्वहेतुत्वात् , यो हि गुणालङ्कारव्यति- रित्तो भवति स चारुत्वहेतुर्न भवति । यथा-असाधुत्वदुःश्रवत्वादिको दोष इति । केवलव्यतिरेकी नाम-'असत्सपक्षो यत्र व्यतिरेकसहचारेण व्याप्तिंग्रहः ।

 १. उद्भटकाव्या., १. ८.

 २. 'अकर्तरि च कारके संज्ञायां (पा. सू., ३. ३. १९) इत्यधिकारस्थेन स्त्रियां

क्तिन' ( पा. सू., ३. ३. ९४.) इत्यनेनेत्यर्थः ।