पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
सटीकलोचनोपेतध्वन्यालोके


 तत्र केचिदाचक्षीरन् – शब्दार्थशरीरन्तावत्काव्यम् । तत्र च शब्दग.


लोचनम्

प्रकृतेऽपीति तृतीयः प्रकारः । एवमेकस्त्रिधा विकल्पः, अन्यौ च द्वौविति पञ्च विकल्पा इति तात्पर्यार्थः । तानेव क्रमेणाह-शब्दार्थशरीरं तावदित्यादिना । तावद्ग्रहणेन कस्याप्यत्र न विप्रतिपत्तिरिति दर्शयति। तत्र शब्दार्थो न तावद्ध्वनिः, यतः संज्ञामात्रे- ण हि को गुणः ? अथ शब्दार्थयोश्चारुत्वं स ध्वनिः । तथापि द्विविधं चारुत्वम्- स्वरूपमात्रनिष्ठं संघटनाश्रितं च । तत्र शब्दानां स्वरूपमात्रकृतं चारुत्वं शब्दाल- ङ्कारेभ्यः, संघटनाश्रितं तु शब्दगुणेभ्यः । एवमर्थानां चारुत्वं स्वरूपमात्रनिष्टमुप- मादिभ्यः । संघटनापर्यवसितं त्वर्थगुणेभ्य इति न गुणालङ्कारव्यतिरिक्तो ध्वनिः कश्चित्। संघटनाधर्मा इति। शब्दार्थयोरिति शेषः । यद्गुणालङ्कारव्यतिरिक्तं तच्चा- रुत्वकारि न भवति, नित्यानित्यदोषा असाधुदुःश्रवादय इव । चारुत्वहेतुश्च ध्वनिः, तन्न तद्व्यतिरिक्त इति व्यतिरेकी हेतुः। ननु वृत्तयो रीतयश्च यथा गुणालङ्कारव्यतिरिक्ता-

बालप्रिया

त्यर्थः । इति तात्पर्यार्थ इति । वृत्तिग्रन्थस्येति शेषः । 'शब्दार्थशरीरं तावदित्यत्र ताव- च्छब्दस्सम्प्रतिपत्त्यर्थ इत्याह-तावद्ग्रहणेनेति । कस्याप्यत्र न विप्रतिपत्तिरिति ध्वनि- वादिनोऽप्यभिमतमेतदित्यर्थः। शब्दार्थयोर्ध्वनित्वमनिराकृत्य तदाश्रितगुणादीनां ध्वनि- त्वनिराकरणमसंगतं स्यादतस्तेषां क्रमेण ध्वनित्वं निराकरोति-तत्रेत्यादिना । तावत् प्रथमम् । न ध्वनिरिति। तयोः शरीरत्वेन जीवितरूपव्यङ्गयत्वाभ्युपगमस्य स्व सिद्धान्त- विरुद्धत्वादिति भावः। यदि च तयोरेव ध्वनिसंज्ञा, तदा व्यर्थः प्रयास इत्याह-संज्ञेति । गुणः उपकारः । अथेत्यादि । अथ यदि, यतश्चारुत्वम् । स इति । चारुत्वहेतुरित्यर्थः। तथापीत्यस्य न गुणालङ्कारव्यतिरिक्तो ध्वनिः कश्चिदित्यनेन सम्वन्धः। अत्र हेतुं चारुत्व- स्य गुणालङ्कारमात्रकार्यत्वप्रदर्शनेनाह-द्विविधमित्यादिना। स्वरूपमात्रकृतं स्वरूप. मात्रनिष्ठम् । संघटनेति। रचनेत्यर्थः। गुणानां संघटनाश्रितत्वं वक्ष्यते। इतीति-हेतौ । यतो गुणालङ्कारजन्यचारुत्वविधाद्वयानन्तर्भूतचारुत्वविधान्तरविरहस्तत इत्यर्थः । नेत्या- दि । चारुत्वहेतोर्ध्वनेर्न गुणालङ्कारातिरिक्ततया सद्भावः सेद्धुमर्हतीत्यर्थः । संघटनाधर्मा इत्यत्र स्वोक्तार्थानुरोधेन पूरयति-शब्दार्थयोरिति शेष इति । स्वोक्तार्थेऽनुमानं प्रमाण- माह-यदित्यादि। अत्रोदाहरणाद्यवयवत्रयप्रदर्शनं मीमांसकमतानुरोधेनाध्वनित्वेनाभिम- तो न गुणालङ्कारव्यतिरिक्तः, चारुत्वहेतुत्वादिति प्रतिज्ञाहेतू द्रष्टव्यौ।असाधु दुःश्रवादय इति भावप्रधानो निर्देशः। असाधुत्वं व्याकरणलक्षणरहितत्वं स नित्यो दोषः, सर्वत्र वर्जनी- यत्वात् । दुःश्रवत्वं श्रुतिदुष्टत्वं, स ह्यनित्यो दोषः, शृङ्गारादावेव वर्जनीयत्वाद् । व्यति- रेकीति । केवलव्यतिरेकीत्यर्थः । गुणालङ्कार विशेषयोरत्र दृष्टान्तत्वसम्भवादन्वयव्यति-


 १. इत आरभ्य साहित्यव्याकरणाचार्यैः पं० महादेवशास्त्रिपाण्डेयविरचिता टिप्पणी पं० पट्टाभिरामशास्त्रिणा विरचितं विवरणं च । प्रकाश्यते । अत्राऽयमनुमानप्रयोगः-