पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथमोद्द्योतः

लोचनम्

र्थशोभाकारित्वालोकशास्त्रातिरिक्तसुन्दरशब्दार्थमयस्य काव्यस्य न शोभाहेतुः कश्चिदन्योऽस्ति योऽस्माभिर्न गणित इत्येकः प्रकारः, यो वा न गणितः स शोभाकार्येव न भवतीति द्वितीयः, अथ शोभाकारी भवति तर्ह्यस्मदुक्त एव गुणे वालङ्कारे वान्तर्भवति, नामान्तरकरणे तु कियदिदं पाण्डित्यम् । अथाप्युक्तेषु गुणेष्वलङ्कारेषु वा नान्तर्भावः, तथापि किंचिद्विशेषलेशमाश्रित्य नामान्तरकरणमुपमाविच्छित्तिप्रकाराणामसंख्यत्वात् । तथापि गुणा- लङ्कारव्यतिरिक्तत्वाभाव एव । तावन्मात्रेण च किं कृतम् ? अन्यस्यापि वैचित्र्यस्य शक्योत्प्रेक्षत्वात् । चिरन्तनैर्हि भरतमुनिप्रभृतिभिर्यमकोपमे एव शब्दार्थालङ्कारत्वेनेष्टे, तत्प्रपञ्चदिकप्रदर्शनं त्वन्यैरलङ्कारकारैः कृतम् । तद्यथा-'कर्मण्यण्' इत्यत्र कुम्भकारायुदाहरणं श्रुत्वा स्वयं नगरकारादिशब्दा उत्प्रेक्ष्यन्ते, तावता क आत्मनि बहुमानः । एवं-

बालप्रिया

ब्दार्थगुणाद्यन्यतमत्वमिति व्याप्तिरनेन दर्शिता। लोकेति । लोकशास्त्रशब्दौ लौकिकवैदिकशब्दपरौ । अन्यः गुणालङ्कारेभ्योऽन्यः, कश्चिन्नास्तीति सम्बन्धः। गुणाद्यतिरिक्तः काव्यशोभाहेतुः कश्चिन्नास्तीति प्रतिज्ञा, प्रमाणाभावादिति हेतुरत्र बोध्यः। नन्वियं प्रतिज्ञा न युक्ता, गुणाद्यतिरिक्तस्य शोभाहेतोस्सिद्धौ तन्निषेधायोगादसिद्धौ निषेधस्याशक्यत्वाच्चेत्यत आह-योऽस्माभिरित्यादि । भवतामभिमत इति चार्थात्सिद्धयति, तथा च परमते प्रतियोगिप्रसिद्ध्या तन्निषेध इति भावः । ननु लब्धरूपे क्व चिदित्यायुक्तनीत्या धर्मिस्वरूपसिद्धयुपजीवनेन धर्मविशेषविषयतयैव निषेधस्यानुज्ञेयत्वाद्वयङ्गयस्वरूपसत्तानिषेधो न सम्भवतीत्यतो द्वितीयं प्रकारमाह ह-यो वेत्यादि । न गणित इति । गुणालकारव्यतिरिक्तत्वेनेत्यर्थात् । स इति अस्माभिरगणितो व्यङ्गयत्वेन भवदभिमतश्चेत्यर्थः । ननु व्यङ्गयस्य शोभाकारित्वं स्वसंवेदसाक्षिकं कथमपह्रूयत इत्यतः प्रकारान्तरमाह-अथे त्यादि । इत्यनुषज्यते। अथ यदि । अन्तर्भवतीति । व्यङ्ग्यत्वेनाभिमतं गुणालङ्कारान्यतरदेव भवितुमर्हति काव्यशोभकारित्वादित्यर्थः ।

 ननु ध्वन्यादिसमाख्यावशात्तद्भेदसिद्धिरित्यत आह-नामान्तरेति । ननु न केवलं नामान्तरकरणमेव, तन्निमित्तञ्चास्त्यतो न गुणाद्यन्तर्भाव इत्याशङ्कामभ्युपगच्छति-अथापीत्यादि। नान्तर्भाव इति । काव्यजीवितत्वादिविशेषादिति भावः । परिहरति-तथापीत्यादि । नामान्तरकरणमिति। अस्मदुक्तानां गुणादीनां काव्यजीवितत्वादिविशेष- माश्रित्य ध्वन्यादिनामान्तरं भवद्भिः क्रियत इत्यर्थः। अत्र हेतुमाह-उपमेति। विच्छित्तिः वैचित्र्यम् । उपमेत्यलङ्कारान्तराणां गुणानाञ्चोपलक्षणम् । फलितमाह-तथापी- त्यादि । तथापि तथा च । ततः किमिति तदाह-तावदिति। तावन्मात्रेण किञ्चिद्विशेषलेशमाश्रित्य नामान्तरकरणमात्रेण । किं कृतमिति । न किञ्चिदपि पाण्डित्य सम्पादितमित्यर्थः। अत्र हेतुरन्यस्येति । तदेवोपपादयति-चिरन्तनैरित्यादि। उक्तमर्थं सोपहासदृष्टान्तं निगमयति-तदित्यादि । तत् तस्मात् । तत्रेति वा पाठः । तथा सती- - -