पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 इत्यत्र । यद्येवं कायस्य दृष्टता स्यात्तदैवमवलोक्येतेति भूतप्राणतैव । यदि न स्यात्ततः किं स्यादित्यत्रापि, किं वृत्तं यदि पूर्ववन्न भवनस्य सम्भावनेत्ययमेवा. र्थ इत्यलमप्रकृतेन बहुना । तत्र समयापेक्षणेन शब्दोऽर्थप्रतिपादक इति कृत्वा वाच्यव्य- तिरिक्तं नास्ति व्यङ्ग्यम् , सदपि वा तदभिधावृत्त्याक्षिप्तं शब्दावगतार्थवलाकृष्टत्वाद्भाक्तम् , तदनाक्षिप्तमपि वा न वक्तुं शक्यं कुमारीष्विव भर्तृसुखमतद्वित्सु इति त्रय एवैते प्रधा- नविप्रतिपत्तिप्रकाराः। तत्राभावविकल्पस्य त्रयः प्रकाराः-शब्दार्थगुणालङ्काराणामेव शब्दा-

बालप्रिया

कायस्य शरीरस्य । एवमिति । निवार्यमाणश्वकाकत्वेन लोक इत्यर्थः । वाक्याभ्यां श्लोकस्य सारार्थो दर्शितः। भूतप्राणतैवेति । अतीतपरमार्थतैवेत्यर्थः। सम्भावनाविष- यतद्बहिर्भवनादिक्रियायाः भूतकालावच्छिन्नत्वमेव प्रतीयत इति यावत् । विधाविव निषेधस्थलेऽप्येवमेवेति दर्शयितुमाह-यदीत्यादि । यदि नामेत्यादिपद्यस्य शेषभूतमिद- मेकपादात्मकं वाक्यम्-यदि न स्यादिति । कायस्यान्तर्यत्तद्वहिर्न स्याद्यदीत्यर्थः । किन्तु यथायथमेव व्यवस्थितान्तर्बहिर्भाग एवायं कायस्स्यादिति भावः । ततः किं स्यादिति । तदाऽपि किं फलं स्यादित्यर्थः। तदाऽप्यतिजुगुप्सितोऽयं कायो निष्फल एव फल्गुतरविषयोपभोगमात्रोपयोगित्वादिति भावः । इत्यत्रापीत्यस्य अयमेवार्थ इत्यनेन सम्बन्धः। उक्तं वाक्यं स्वयं व्याचष्टे-किं वृत्तमित्यादि । यदि न भवनस्य सम्भावना किं वृत्तमिति योजना। ततः किं स्यादि त्यस्य विवरणं-किं वृत्तमिति । तदापि किं फलं जातं न किञ्चिदित्यर्थः । यदि न स्यादित्यस्य विवरणं यदि न भवनस्य स- म्भावनेति। पूर्ववदिति वैधर्म्येण दृष्टान्तकथनं, यदि नामेत्यादौ यथा भवनस्य सम्भा- वनेति । अयमेवार्थ इति निषेधस्थलेऽपि लिङस्सम्भावनैवार्थ इति भावः । अथादौ प्रतिपत्तिसौकर्याय तात्पर्य दर्शयति-तत्रेत्यादिना । तत्र ध्वनिविषये । समयापेक्षणेन सङ्केतसहकारेण । इति कृत्वा इत्यतो हेतोः, शब्दस्य सङ्केतितार्थबोधकत्वादिति यावत् । वाच्यव्यतिरिक्त सङ्केतितार्थव्यतिरिक्तम् । व्यङ्गयं तत्त्वेनाभिमतम् , नास्ति काव्ये नास्ति, व्यङ्गयत्वेनाभिमतं. काव्यप्रतिपाद्यं न भवति काव्यशब्दासङ्केतितत्वादि- त्यर्थः । सदपीति । तद्वाच्यव्यतिरिक्तं व्यङ्गयं सदपि भाक्तमिति सम्बन्धः । अत्र हेतु:- अभिधावृत्त्याक्षिप्तमिति। अभिधावृत्त्या अभिधापुच्छभूतया वृत्त्या लक्षणया, आ- क्षिप्तं बोधितम्। अत्र हेतुः-शब्देति। बलं सहकारि। तदनाक्षिप्तं अभिधावृत्त्यनाक्षिप्तम्। तत्सदित्यनयोरनुषङ्गः, सदपीति योजना। वक्तुम् असाधारणधर्मप्रकारेण प्रतिपादयि- तुम् । न शक्यं शक्तिर्नास्ति बुधेष्विति शेषः । अत्र दृष्टान्तः-कुमारीष्विवेति।वचन- शक्त्यधिकरणत्वविवक्षया सप्तमी। अतद्वित्सु भर्तृसुखमजानतीषुप्रधानविप्रतिपत्ती- ति । कारिकोक्तत्वादेषां प्राधान्यम् । तानेव प्रकारानाह-शब्देत्यादि। शब्दार्थयोर्ये गुणाः, अलङ्काराश्चतेषामेव । ते ह्युभयवादिसिद्धशोभाहेतुभावाः। शब्देति । काव्यशोभाकारित्वा- दित्यर्थः । हेतुरयं वक्ष्यमाणे सर्वत्र बोध्यः-यत्र यत्र काव्य शोभाकारित्वं तत्र तत्र श- ।