पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
प्रथमोद्योतः


विकल्पाः संभवन्ति ।


लोचनम्

वसानं स्यात् दूषणानां च। अतः सम्भावनामभिधायिष्यमाणां समर्थयितुं पूर्व सम्भव- न्तीत्याह । सम्भाव्यन्त इति तूच्यमानं पुनरुक्तार्थमेव स्यात् । न च सम्भवस्यापि स- म्भावना, अपि तु वर्तमानतैव स्फुटेति वर्तमानेनैव निर्देशः । ननु चासम्भवद्वस्तुमूल- या सम्भावनया यत्सम्भावितं तद्दूषयितुमशक्यमित्याशङ्कयाह-विकल्पा इति । न तु वस्तु सम्भवति तादृक् यत इयं सम्भावना, अपि तु विकल्पा एव । ते च तत्त्वा- ववोधवन्ध्यतया स्फुरेयुरपि, अत एव 'आचक्षीरन्' इत्यादयोऽत्र सम्भावनाविषया लिङ्गप्रयोगा अतीतपरमार्थे पर्यवस्यन्ति । यथा-

यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् ।
दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥॥

बालप्रिया

अभिधायिष्यमाणाम् आचक्षीरन्नित्यादिना वक्ष्यमाणाम् । समर्थयितुमिति। यत्स- म्भवति तत्सम्भाव्यत इति व्याप्त्या साधयितुमित्यर्थः।सम्भवन्तीत्याहेति। तदभाववादि. नामित्यादि सम्भवन्ती'त्यन्तमाहेत्यर्थः। ननु सम्भवन्तीत्यस्य स्थाने सम्भाव्यन्त इत्युच्यतां तदा प्रतिज्ञा चादौ कृता स्यादित्यत्राह-सम्भाव्यन्त इतीति। पुनरुक्तार्थमिति। लिङ्गभि- रित्यर्थः। ननु सम्भावनामूलभूतस्सम्भवोऽपि किं सम्भावनीयः ? नेत्याह-न चेति।वर्त- मानेनेति । लटेत्यर्थः । विकल्पा इत्युक्तमवतारयति-ननु चेति। सम्भवद्वस्तुमूलमाश्रयो यस्यास्तया, सम्भावितं विषयीकृतमुत्पादितं वा। विकल्पा इत्युक्तया कथं परिहार इत्य- तस्तत्प्रकारं व्याचष्टे-न त्वित्यादि । तादृक्सम्भावनया सम्भावितं वस्तु परमा न सम्भवति। अत्र हेतुर्यत इति। इयमिति । कारणभूतेत्यर्थः। तर्हि किमालम्बना सम्भावनेत्यत आह-अपि वित्यादि । प्रमाणयुक्त्याभासाभ्यामधिष्ठानभूते काव्यात्मनि ध्वनिस्वरूपे विरुद्धतया कल्प्यन्त इति विकल्पाः पक्षाः। ननु भावे कथमभावकल्पनेत्यत- आह-ते चेति। तत्वेति। ध्वनिस्वरूपकाव्यात्मसंवित्तिविरहेणेत्यर्थः। स्फुरेयुरपि स्फुर- न्त्येव। अत एवेति। यत इमे पक्षा भ्रान्तिकल्पिताः, तत एवेत्यर्थः । अतीतेति। अतीतो भूतः परमार्थस्तात्पर्यार्थो येषां ते। परमार्थत्व इति च पाठः । पर्यवस्यन्तीति मूले जग- दुरिति लिट्योग इव वृत्तावाचक्षीरन्नित्यादिसम्भावनार्थकलिङ्प्रयोगोऽपि क्रियायाः स- म्भावनारूपबुद्ध्यारोपितत्वनिमित्तकभूतत्वे पर्यनस्यतीर्त्थः । उक्तार्थे दृष्टान्तमाह-यथेति । यदि नामेति । वस्तुतत्त्वनिवेदनमुखेन वैराग्यजननार्थमिदं वचनम् । कायस्य शरी- रस्य । यदिति । मांसादीत्यर्थः। शुनः काकांश्चेति भक्षणाय प्रवृत्तानित्यर्थात् सिद्धयति। इत्यत्रेति । भूतप्राणतैवेति सम्बन्धः । एवमिति । बहिर्भूतान्तर्गतमांसादिकत्वेनेत्यर्थः । - 1