पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२

सटीकलोचनोपेतध्वन्यालोके


यजनमनःप्रकाशमानस्याप्यभावमन्ये जगदुः। तदभावादिनां चामी


लोचनम्

सोऽनादरणीयं वस्त्वादरेणोपदिशेयुः; एतत्त्वादरेणोपदिष्टम् । तदाह-सम्यगाम्नातपूर्व इति। पूर्वग्रहणेनेदम्प्रथमता नात्र सम्भाव्यत इत्याह, व्याचष्टे च-सम्यगासमन्ताद् म्नातः प्रकटित इत्यनेन । तस्येति । यस्याधिगमाय प्रत्युत यतनीयं, का तत्राभावसम्भा- वना। अतः किं कुर्मः, अपारं मौर्ख्यमभाववादिनामिति भावः। न चास्माभिरभाववादिनां विकल्पाः श्रुताः, किं तु सम्भाव्य दूषयिष्यन्ते, अतः परोक्षत्वम् । न च भविष्यद्वस्तु दूषयितुं युक्तम् , अनुत्पन्नत्वादेव । तदपि बुद्धयारोपितं दूष्यत इति चेत् ; बुद्धयारोपित- त्वादेव भविष्यत्त्वहानिः । अतो भूतकालोन्मेषात् पारोक्ष्याद्विशिष्टाद्यतनत्वप्रतिभानाभा- वाच्च लिटा प्रयोगः कृतः- :-जगदुरिति । तद्व्याख्यानायैव सम्भाव्य दूषणं प्रकटयिष्यति । सम्भावनाऽपि नेयमसम्भवतो युक्ता, अपि तु सम्भवत एव, अन्यथा सम्भावनानामपर्य-

बालप्रिया

इत्यभिप्राय इति । परम्परयेति वचने वृत्तिकाराभिप्राय इत्यर्थः। समाम्नातपूर्व इत्यत्र संशब्दार्थं दर्शयितुमाह-न चेत्यादि । पूर्वग्रहणस्य फलमाह-पूर्वेति । अत्र आख्याने। इत्याह इति व्यञ्जयति । व्याचष्टे चेति । उक्तमर्थं व्याचष्टे चेत्यर्थः। सम्यगित्यादिना पूर्वशब्दार्थोऽपि व्याख्यात इति भावः। बुधसमाम्नातत्वोक्त्या लब्धस्य विवरणं सहृदय- मनःप्रकाशमानस्यापीति । तेन गम्यमर्थन्दर्शयति-यस्येत्यादिना । जगदुरिति लिटः प्रयोगस्योपपत्तिं वृत्तौ व्याचक्षीरन्नित्यादेस्तविवरणरूपत्वादिकञ्च दर्शयितुमाह-न चे- त्यादि । अस्माभिः ध्वनिवादिभिः, विरुद्धाः कल्पा विकल्पा विकल्पितार्थाः। यदि न श्रुताः कथन्तर्हि दूषयिष्यन्त इत्यत आह-सम्भाव्येति। के चिदाचक्षीरन्नित्यादिना सम्भा- वना। यत्रार्थशब्दो वेत्यत्र व्याख्याने 'यदप्युक्त'मित्यनुवादपूर्वकं तदप्ययुक्त'मित्यादिना दूषणञ्चेति बोध्यम् । अत इति। अश्रुतत्वादित्यर्थः। भूतत्वं साधयितुमाह-न चेति। अनु- त्पन्नत्वादेवेति। एवकारः पौनर्वचनिकः, पूर्वोक्ताद्भविष्यत्वादेवेत्यर्थः । शङ्कते-तदपी- ति । तत् भविष्यद्वस्तु, बुद्धावारोपितं बुद्ध्यारोपितं बुद्धिविषयीकृतम् । समाधत्ते- बुद्धीति । आरोपणं करणम् । उपसंहरति-अत इति । वास्तवभूतत्वस्यासम्भवमभिप्रेत्य उन्मेषादित्युक्तम्। प्रातिभासिकं भूतकालावच्छिन्नत्वं लिट्प्रयोगावलम्बनमिति भावः । विशिष्टेति। कालविशेषरूपेत्यर्थः। एवं लिटः प्रयोगं प्रसाध्याचक्षीरन्नित्यादिलिङ्गप्रयोगान् प्रकृतसङ्गतान् दर्शयति- -तद्व्याख्यानायैवेति। लिटो व्याख्यानायैवेत्यर्थः, न तु स्वतन्त्रत- येत्येवकारार्थः। व्याख्यानायेत्यस्य सम्भाव्यत्यनेन सम्बन्धः। नन्वाचक्षीरन्नित्यादिभिरेव जगदुरित्यस्य व्याख्याने सम्भवति किं मध्ये तदभाववादिनाञ्चामी इत्यादिग्रन्थेनेत्यशा- ङ्कावारणायावतारयति-सम्भावनाऽपीति। इयं लिट्समर्थकत्वेनोपात्ता। असम्भवतः कथञ्चिदप्यप्रतीतस्य । अपर्यवसानं स्यादिति । पर्यवसानस्थानालाभादिति भावः ।