पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
प्रथमोद्योतः


लोचनम्

ना। एवं तु युक्ततरम्-इतिशब्दो भिन्नक्रमो वाक्यार्थपरामर्शकः, ध्वनिलक्षणोऽर्थः काव्यस्यात्मेति यः समाम्नात इति । शब्दपदार्थकत्वे हि ध्वनिसंज्ञितोऽर्थ इति का सङ्ग- तिः? एवं हि ध्वनिशब्दः काव्यस्यात्मेत्युक्तं भवेद् , गवित्ययमाहेति यथा । न च विप्र- तिपत्तिस्थानमसदेव, प्रत्युत सत्येव धर्मिणि धर्ममात्रकृता विप्रतिपत्तिरित्यलमप्रस्तुतेन भूयसा सहृदयजनोद्वेजनेन। बुधस्यैकस्य प्रामादिकमपि तथाभिधानं स्यात् , न तु भूय- सां तद्युक्तम् । तेन बुधैरिति बहुवचनम् । तदेव व्याचष्टे-परम्परयेति। अविच्छिन्नेन प्रवाहेण तैरेतदुक्तं विनाऽपि विशिष्टपुस्तकेषु विनिवेशनादित्यभिप्रायः। न च बुधा भूयां-

बालप्रिया

त्यनेनेत्यर्थः । यदिदं संज्ञाप्रकारेण ध्वनिलक्षणं वस्तु काव्यात्मत्वेनाभिहितं तदश्रद्धोपहन्य- मानमानसजनबुद्धयनुरोधेनैव । ध्वन्यमानत्वविशिष्टार्थस्य सहृदयप्रतीतिसिद्धतया तद्बु- द्धयनुरोधेन च समनन्तरग्रन्थ इति भावः। यद्वा नन्वेवं ध्वनिपदस्य ध्वनिसंज्ञित इत्यर्थक- त्वे कथमभावादिवादिप्रत्युत्थानम्, तेषां ध्वन्यमानत्व एव विवादेन ध्वनिसंज्ञायां विवादाभा- वादित्यत आह-वस्तुतस्त्वित्यादि । विवृणोतीति । विविच्य वदतीत्यर्थः । सहृदये- त्यादिनेति।आदिपदेन सहृदयमनःप्रकाशमानस्याप्यभावमन्ये जगदुरित्यादेस्सङ्ग्रहः। ध्व- निरितीति योजनेन वृत्तिकृद्विवरणमुपलक्षणमित्यभिप्रायेणाह-एवं त्वित्यादि। एवं वक्ष्य- माणं योजनं व्याख्यानं वेति शेषः। युक्ततरमिति। तरपा पूर्वव्याख्यानस्य युक्तत्वमस्ती- ति ज्ञाप्यते। भिन्नक्रम इति। यस्मादनन्तरं श्रूयते ततोऽन्यत्र योजनीय इत्यर्थः। काव्य- स्यात्मेति समानातपूर्व इति योजनेति भावः । वाक्यार्थपरामर्शक इति । समाम्नाने का- व्यस्यात्मेति वाक्यार्थप्रतिपादकत्वं बोधयतीत्यर्थः, न तु तद्वाक्याभेदमिति भावः। वाक्य- मत्र पदसमुदायः। योजनां दर्शयति-ध्वनीत्यादि । ध्वनिरित्यस्य विवरणं-ध्वनित्लक्ष. णोऽर्थ इति। ध्वन्यमानत्वविशिष्ट इत्यर्थः। एवञ्चास्यैवार्थस्य तस्येति तत्पदेन परामर्शः। ध्वनिरितीति योजनापक्षे ध्वनिपदस्य केवलसंज्ञापरत्वे दोषमाह-शब्देत्यादि । शब्दप- दार्थकत्वे ध्वनिपदस्य ध्वनिरिति संज्ञामानार्थकत्वे सति । कासङ्गतिरिति । असङ्गतं स्यादित्यर्थः। अत्र हेतुमाह-एवं हीत्यादि। ध्वनिपदस्य प्रागुक्तरीत्याऽर्थपरत्वासङ्गतिशङ्कां परिहरति-न चेत्यादि । विप्रतिपत्तिस्थानं विप्रतिपत्तिविषयो धर्मी । धर्ममात्रकृते- त्यादि । यथा शब्दादौ सत्येव धर्मिणि नित्यत्वानित्यत्वादिधर्मकृता विप्रतिपत्तिः, प्रकृते च ध्वनिसंज्ञिते धर्मिणि गुणालङ्कारान्तर्भूतत्वभाक्तत्वादिधर्मकृता विप्रतिपत्तिरिति भावः। बुधैरिति बहुवचनार्थं व्याचष्टे-बुधस्येत्यादि । तथाभिधानं काव्यात्मत्वेनाभिधानम्। तत्प्रामादिकाभिधानम्। तेनेति। तदभिधानस्य प्रामाणिकत्वेनोपादेयत्वद्योतनार्थमित्यर्थः। तदेवेति।उक्तप्रयोजनकं बहुवचनमेवेत्यर्थः। परम्परयेत्यस्य विवरणमविच्छिन्नेनेत्या- दि। एतदिति । ध्वनेः काव्यात्मत्वमित्यर्थः। विशिष्टेति। विशिष्टपुस्तकेषु विनिवेशनं लेखनेन स्थापनं, तस्माद्विनाऽप्युक्तमिति सम्बन्धः। साक्षादुपदेशसिद्धोऽयमर्थ इति भावः। । T