पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
सटीकलोचनोपेतध्वन्यालोके


 बुधैः काव्यतत्त्वविद्भिः, काव्यस्यात्मा ध्वनिरिति संज्ञितः, परम्परया यः समाम्नातपूर्वः सम्यक् आसमन्ताद् म्नातः प्रकटितः, तस्य सहृद-


लोचनम्

वृणोति-काव्यतत्वविद्भिरिति । आत्मशब्दस्य तत्त्वशब्देनार्थ विवृण्वानः सारत्वम- परशाब्दवेलक्षण्यकारित्वं च दर्शयति । इतिशब्दः स्वरूपपरत्वं ध्वनिशब्दस्याचष्टे, तदर्थ- स्य विवादास्पदीभूततया निश्चयाभावेनार्थत्त्वायोगात् । एतद्विवृणोति-संज्ञित इति । वस्तुतस्तु न तत्संज्ञामात्रेणोक्तम् , अपि त्वस्त्येव ध्वनिशब्दवाच्यं प्रत्युत समस्तसार- भूतम् । न ह्यन्यथा बुधास्तादृशमामनेयुरित्यभिप्रायेण विवृणोति-तस्य सहृदयेत्यादि-

बालप्रिया

काव्यात्मविद्भिरित्येव कुतो नोक्तमित्यत आह-आत्मेति। तत्त्वशब्देन अबाधितस्वरूपवा. चिना तत्त्वशब्देन।अपरेति। अपरेभ्यः शाब्देभ्यः लौकिकवैदिकशब्दप्रतिपाद्येभ्यः स्वस्य यद्वैलक्षण्यं सहृदयश्लाध्यत्वादिना तत्कारित्वम् , दर्शयति व्यञ्जयति, तदर्थस्येति शेषः। आत्मेवात्मेत्यात्मशब्दोऽत्र गौणः; तेन चाबाधितस्वरूपत्वरूपात्मसाम्येन ध्वनिरूपार्थों लक्ष्यत इति ज्ञापनाय तत्त्वशब्देन तदर्थविवरणं, तेन तस्य सारत्वादिकं व्यङ्गयमिति भावः । इतिशब्द इति। ध्वनिरितीत्यत्रेतिशब्द इत्यर्थः । आचष्टे ग्राहयति, सर्वशब्दानां शब्दस्वरूपपरत्वं तत्तत्सङ्केतितार्थपरत्वञ्चास्ति। तत्रेतिशब्दप्रयोगे शब्दखरूपपरत्वं, प्रकृते ध्वनिपदोत्तरमितिशब्दकरणाद्ध्वनिशब्दोऽयं संज्ञारूपध्वनिशब्दस्य प्रतिपादक इत्यर्थः । तत्संज्ञाप्रकारेण संज्ञिनो भानञ्चाक्षेपादिना भवति यथा जातिशक्तिपक्षे व्यक्तेर्भानम् । यद्वा ध्वनिपदस्य लक्षणया ध्वनिसंज्ञित इत्यर्थ इति भावः । उक्तार्थे हेतुमाह-तदर्थस्येत्यादि । तदर्थस्य ध्वनिशब्दाभिधेयस्य ध्वन्यमानत्वविशिष्टस्य, विवादास्पदीभूततया ध्वनि- रस्ति नास्तीति विप्रतिपत्तिविषयतया। निश्चयाभावेनेति। निश्चयाभाव इति पाठे निमित्ते सप्तमी। ध्वन्यमानत्वप्रकारेण तद्धर्मिणो मध्यस्थानां निश्चयाभावादित्यर्थः।अर्थत्वायोगा- दिति। ध्वनिपदनिरूपितवृत्तिग्रहाधीनज्ञानविषयत्वासम्भवादित्यर्थः। यद्वा तदर्थस्येत्यस्य निश्चयाभावेनेत्यनेन सम्बन्धः । अर्थत्वायोगादिति ध्वन्यमानत्वविशिष्टरूपार्थवत्त्वा- सम्भवादित्यर्थः । ध्वनिशब्दस्येत्यस्यानुषङ्गः । एतदिति ध्वनिशब्दस्य स्वरूपपरत्वमि- त्यर्थः। नन्वेवं ध्वनिशब्दस्य ध्वनिसंज्ञित इत्यर्थकथने सति तस्य 'सहृदयमनःप्रकाश- मानस्यापी'ति समनन्तरग्रन्थविरोधः, सहृदयमनःप्रकाशमानस्येत्यनेन ध्वन्यमानत्ववि- शिष्टार्थस्य सहृदयप्रतीतिविषयत्वाभिधानादित्याशङ्कां परिहर्तुं तद्गन्थाभिप्रायमाह-वस्तु- तस्त्वित्यादि । तदिति । ध्वनिपदमित्यर्थः । यद्वा ध्वनिरूपं वस्त्वित्यर्थः। संज्ञामा- त्रेणेति । मात्रपदेन ध्वन्यमानत्वरूपप्रवृत्तिनिमित्तस्य व्यवच्छेदः । ध्वनिशब्दवाच्यं ध्वन्यमानत्वविशिष्टम् । अस्त्येवेत्यत्र हेतुमाह-न ह्यन्यथेत्यादि । विवृणोतीति-का- रिकास्थं तस्येति पदं व्याचष्ट इत्यर्थः । सहृयेत्यादिनेति । सहृदयमनःप्रकाशमानस्ये- 1