पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोद्योतः


काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व-
स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
के चिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं
तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥१॥


लोचनम्

 अथ प्राधान्येनाभिधेयस्वरूपमभिदधदप्रधानतया प्रयोजनप्रयोजनं तत्सम्बद्धं प्र- योजनं च सामर्थ्यात्प्रकटयन्नादिवाक्यमाह-काव्यस्यात्मेति ।

 काव्यात्मशब्दसंनिधानाबुधशब्दोऽत्र काव्यात्मावबोधनिमित्तक इत्यभिप्रायेण वि-

बालप्रिया

 अथेत्यारम्भार्थः। अभिधेयस्वरूपमिति । ध्वनिस्वरूपमित्यर्थः । प्रयोजनेति । प्रयोजनस्य ध्वनिरूपाभिधेयज्ञानस्य प्रयोजनं प्रीतिरूपम् , अभिदधदित्यस्यात्रानुषङ्गः। । अभिधेयस्वरूपस्य तत्स्वरूपं ब्रूम इति वाक्यार्थत्वं; प्रयोजनप्रयोजनस्य प्रीतय इति पदार्थ- त्वमतस्तदभिधानयोः प्राधान्याप्राधान्ये । तत्सम्बद्ध मिति। तेन प्रयोजनप्रयोजनेन स- म्बद्धमित्यर्थः । प्रयोजनमभिधेयज्ञानरूपम् । सामर्थ्यात् अर्थसामर्थ्यादाक्षेपत इति यावत् । प्रकटयन बोधयन् । ध्वनिस्वरूपवचनस्य हि प्रयोजनं ध्वनिस्वरूपज्ञानं सहृद- यानाम् । तस्य हि प्रयोजनं मनःप्रीतिः । एवञ्च तयोर्हेतुहेतुमद्भावेन प्रयोजनप्रयोजनरू- पायाः प्रीतेरभिधानात्तद्धेतुभूतस्य ध्वनिस्वरूपज्ञानस्य प्रकटनं सिद्धयतीति भावः ।

 ननु बुधशब्दस्य सामान्यतो ज्ञातृवाचित्वात् वृत्तौ 'काव्यतत्त्वविद्भिरि ति कुतो व्याख्या- तमित्यतस्तदवतारयति-काव्येति। काव्यात्मबोधः निमित्तं प्रयोगनिमित्तं यस्य सः। यद्वा निमित्तं प्रवृत्तिनिमित्तम् । तच्च तत्पदजन्यवोधे प्रकारतया भासमानो धर्मः । ननु

टिप्पनी

 प्राधान्येनेति । प्रतिपिपादयिषितत्वान्मुख्यत्वेन। अभिधेयेति। "तेन ब्रूम” इति प्रतिज्ञातत्वाद्ध्वन्यात्मकविषयम् । प्रयोजनप्रयोजनमिति। ध्वनिस्वरूपाभिधानस्य ध्वनिस्वरूपज्ञानं प्रयोजनम् , अस्य च सहृदयमनःप्रीतिस्तदिति भवति तदभिधा- नस्य तादृशप्रीतिस्तथा प्रयोजनम् ।

 प्रयोजनप्रयोजनतावच्छेदककुक्षौ मनःपदोपादानं च भरतदर्शनाध्वनीनानां प्रक्रि- यांशे भूम्ना व्याकरणदर्शनानुसारित्वस्फोरणाय, इदमीये हि दर्शने सुखादिविशेषगु- णानां मनोनिष्ठत्वमेवाभिमतं नात्मनिष्ठत्वम् ।

 बुधशब्दोऽत्रेति । सामान्यपरशब्दानां विशेषपरत्वे लक्षणैवाश्रयणीयाऽन्यथा शाब्दविषयत्वानुपपत्तिरेव स्यात् ।