पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

पुनरेवंविधा नखा दश बालचन्द्राकाराः सन्तापार्तिच्छेदकुशलाश्चेति तानेव लोको बालेन्दु- बहुमानेन पश्यति, न तु मामित्याकलयन्वालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षापहृति- ध्वनिरपि, एवं वस्त्वलकाररसभेदेन त्रिधा ध्वनिरत्र श्लोकेऽस्मद्गुरुभिर्व्याख्यातः ।

बालप्रिया

रिति यावत् , बालेन्दुरविरतमायासमनुभवतीवेत्युत्प्रेक्षायां हि पूर्वोक्तं तानेव लोको- बालेन्दुं बहुमानेन पश्यति न तु मामित्याकलनं निमित्तं तत्र च स्पष्टापह्नुतिः; न नखा- एते किन्तु बालेन्दव इति लोकस्य प्रतीतेः; तथा चात्रोत्प्रेक्षा नखविषयकनखत्वनिषेधपू- र्वकबालेन्दुत्वारोपरूपलोकप्रतीतिविषयकबालचन्द्रगतप्रतीतिनिबन्धनेत्यतोऽपह्रुतिबलादा- त्मानं लभत इत्यङ्गाङ्गिभावो बोध्यः, निगमयत्येवमित्यादि । अत्र वीररसध्वनिर- ङ्गी; उत्साहस्य प्राधान्येन प्रतीयमानत्वादिति ध्येयम् ,

 नन्वत्र ग्रन्थकारगतभगवद्विषयकरतेर्व्यङ्गयत्वस्य वक्तव्यतया भावध्वनिरेवाङ्गित्वेन वाच्यः, रसस्तु तदङ्गतयेति चेदत्राहुः-प्रतिपन्नभगवत्तन्मयीभावस्य ग्रन्थकर्तुराशीः- कर्तृतया वाक्यमिदं न भावपरं भक्तस्य भेदेन भजनीयदेवताविषयकरतेर्व्यङ्गयायाः खलु ग्रन्थकर्तुर्भगवत्तन्मयीभावश्च स्वयं सूत्रकृदवस्थायां मङ्गलाकरणादपूर्वप्रस्था- नकर्तृत्वाच्च सिद्धः

टिप्पनी

 उत्प्रेक्षाऽपह्रुतिध्वनिरपीति। बालचन्द्रकर्तृकायासानुभवस्योत्प्रेक्षा हि नखत्वप्रति- षेधपुरस्सरबालचन्द्रत्वविधानप्रत्ययलक्षणविषयापह्रवमात्मनीनमवलम्बतेऽतोऽङ्गाङ्गिभा- वः सङ्करोऽनयोरिति भावः ।

 यत्त्वायासितरूपैकपदव्यञ्जकानुप्रविष्टयोरेनयोरेकव्यञ्जकानुप्रवेशात्मा सोऽत्रेति क- श्चित् , तन्मन्दम्-मिथोऽनपेक्षत्वरूपपृथग्व्यवस्थितत्व एव ध्वनिगते योग्यताऽस्त्येक- व्यञ्जकानुप्रवेशात्मनः सङ्करस्य, प्रकृते चोक्तदिशोत्प्रेक्षाऽपन्हुत्योः सापेक्षतैव मिथोऽस्ति,

 न च नैरपेक्ष्ये संसृष्टेः प्रसङ्ग इति शङ्क्यम् ? पदरूपविषयभेदविशिष्टानपेक्षत्वस्य संसृष्टौ विवक्षितत्वाद् ,

 एकव्यञ्जकानुप्रवेशे च विशेष्यसत्त्वेऽपि विशेषणाभावान्न संसृष्टिलक्षणातिव्याप्ति- रित्याकृतम् ।

 एवं वस्त्वलंकाररसेति । यद्यपि सर्वमेव वस्तु तथाऽपीह रसालंकारभिन्नं वस्तुपदेन विवक्षितम्, अलंकारत्वं च रसादिप्रतियोगिकभेदवद्व्यङ्ग्यप्रतियोगिकभेदविशिष्टशब्दा- र्थान्यतरनिष्ठविषयितासम्बन्धावच्छिन्नचमत्कृतिजनकताऽवच्छेदकताऽवच्छेदकत्वम् रसश्च भग्नावरणचिद्विशिष्टः स्थायी । त्रिधा ध्वनिरत्रेति । यद्यपि प्रकारान्तरेण ध्वनीनां- बाहुविध्येऽपि ध्वन्यमानविषयभेदनिबन्धनध्वनिविभागजनकत्वप्रकारकाचार्य्यतात्पर्य- विषयीभूतधर्माणां वैविध्येन ध्वनित्रिधात्वमप्यविरुद्धमिति भावः ।