पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोद्योतः


लोचनम्

भृतयो हि मुख्यतया भाववृत्तय एव; स्वच्छायया च वक्रहृद्यरूपयाऽऽकृत्याऽऽयासितः- खेदित इन्दुयः, अत्रार्थशक्तिमूलेन ध्वनिना बालचन्द्रत्वं ध्वन्यते, आयासनेन तत्सन्निधौ चन्द्रस्य विच्छायत्वप्रतीतिरहृद्यत्वप्रतीतिश्च ध्वन्यते, आयासकारित्वं च नखानां सुप्रसि- द्धम् ; नरहरिनखानां तच्च लोकोत्तरेण रूपेण प्रतिपादितम् , किं च तदीयां स्वच्छतां कु- टिलिमानं चावलोक्य बालचन्द्रः स्वात्मनि खेदमनुभवति; तुल्येऽपि स्वच्छकुटिलाकार- योगेऽमी प्रपन्नार्तिनिवारणकुशलाः; न त्वमिति व्यतिरेकालङ्कारोऽपि ध्वनितः, किंचाहं- पूर्वमेक एवासाधारणवेशद्यहृद्याकारयोगात्समस्तजनाभिलषणीयताभाजनमभवम् ,अद्य

बालप्रिया

निमाहार्थेति । वक्रहृद्यरूपाकृत्यायासितत्वस्य बालचन्द्र एव सम्भवात्तदर्थसामर्थ्यमूले- नेत्यर्थः , बालचन्द्रत्वं ध्वन्यत इति । इन्दुपदार्थस्य चन्द्रस्य बालत्वं ध्वन्यत इत्यर्थः , आयासित इत्यस्य खेदित इत्यर्थो लक्षणया; तत्फलमाहायासनेनेत्यादि । तत्सन्निधौ= नखसन्निधौ , विच्छायत्वेति=निश्शोभत्वेत्यर्थः, ध्वन्यत इति । ध्वनिव्यापारेण जायत- इत्यर्थः , सुप्रसिद्धमिति । प्रहरणरूपत्वादिति भावः, तच्च आयासकारित्वञ्च, लोकोत्तरे- णेति-स्वच्छत्वादिपूर्वोत्तरूपेणेत्यर्थः, प्रतिपादितमिति । तथा च विदारणादिनाऽऽया- सकारिभ्यो लौकिकनखेभ्यो नरहरिनखानां व्यतिरेको व्यज्यत इति भावः, प्रपन्नार्ति- च्छिद इति विशेषणसहकारेण व्यतिरेकान्तरस्यालङ्कारान्तरस्य च ध्वनिन्दर्शयति कि- ञ्चेत्यादि । तदीयां नखसम्बन्धिनीम् , कुटिलिमानमित्यत्र तदीयमिति विपरिणामेन सम्बन्धः , स्वात्मनीति । परेषामविदितमित्यर्थः , अनुभवप्रकारमाह-तुल्येऽपीत्यादि । नत्वहमितीति । इतिशब्दस्यानुभवतीत्यनेन व्यतिरेकालङ्कार इत्यनेन च सम्बन्धो बो- ध्यः, ध्वनित इति उक्तार्थप्रतीत्या सहृदयानां व्यतिरेकव्यक्तिरित्यर्थः, इति व्यतिरे- कालङ्कारोऽपि ध्वनित इति पाठः, अपिशब्देन पूर्वोत्तव्यतिरेकस्य समुच्चयः, एवं- विधा इति । वैशद्यहृद्याकारयुक्ता इत्यर्थः, सन्तापार्तिच्छेदकुशलाश्चेति । आत्मनो हि स- न्तापस्यैव च्छेदने कुशलत्वं न सर्वासामार्तीनामिति भावः, बालेन्दुबहुमानेनेति । एते नखाः न किन्तु बालेन्दव इति बहुमत्येत्यर्थः, आयासमिति । अयशोहेतुकं दुःखमित्य- र्थः , अनुभवतीवेति । इवशब्दरहितश्च पाठः, उत्प्रेक्षापहृतिध्वनिरिति-उत्प्रेक्षार्थाऽप- ह्रुतिरुत्प्रेक्षाऽपहृतिः तस्याः ध्वनिः अपहृत्युत्प्रेक्षयोरङ्गाङ्गितया स्थितत्वात्तत्सङ्करध्वनि-

टिप्पनी

 अत्रार्थशक्तीति । प्रकारताऽवच्छेदकताऽवच्छेदकताऽऽपन्नस्य शक्यस्य स्वपदार्थ- स्य मधुरिपुनखस्य शक्तिः पदपरिवृत्तिसहत्वरूपसामर्थ्यं मूलं प्रयोजकं यस्य तादृशेन स्वतःसम्भविना. व्यञ्जनाव्यापारेण । बालचन्द्रत्वमिति । वक्रिमहृद्यत्वनिबन्धनकमनी- यत्वकरणकमधुरिपुनखकर्तृकायासकर्मत्वं योग्यतावशात्तादृशचन्द्र एव पर्यवस्यतीति भावः । आयासनेनेति । अत्राप्यायासपदार्थीयतादृशशक्तिप्रयुक्तव्यञ्जनेन विच्छायत्वा- दिकं वस्तु बालचन्द्रगतं व्यज्यते । -