पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकलोचनोपेतध्वन्यालोके



लोचनम्

त्र्येण, नाप्यन्यदीयेच्छया, अपि तु विशिष्टदानवहननोचिततथाविधेच्छापरिग्रहौचित्या- देव स्वीकृतसिंहरूपस्येत्यर्थः; कीदृशा नखाः ? प्रपन्नानामार्ति ये छिन्दन्ति; नखानां हि छेदकत्वमुचितम् ; आर्तेः पुनश्छेद्यत्वं नखान्प्रत्यसम्भावनीयमपि तदीयानां नखानां- स्वेच्छानिर्माणौचित्यात्सम्भाव्यत एवेति भावः , अथ वा त्रिजगत्कण्टको हिरण्यकशिपु- र्विश्वस्योत्क्लेशकर इति स एव वस्तुतः प्रपन्नानां भगवदेकशरणानां जनानामार्तिकारि- त्वान्मूर्तैवार्तिस्तं विनाशयद्भिरार्तिरेवोच्छिन्ना भवतीति परमेश्वरस्य तस्यामप्यवस्थायां- परमकारुणिकत्वमुक्तं , किं च ते नखाः स्वच्छेन स्वच्छतागुणेन नेमल्येन; स्वच्छमृदुप्र-

बालप्रिया

या शक्तिः सामर्थ्यं येषां तेषां भावस्तत्ता , शक्ततेति च पाठः, व्यङ्गयान्तरमप्याह- ध्वनितश्चेति, उक्तव्यङ्गयेनेति शेषः, व्यतिरिक्तकरणेति । बाह्यखड्गादीत्यर्थः, जगत्रासे- ति। तत्तद्दुर्जनेभ्यो जगतो यस्त्रासः तदपसारणे य उद्यमः स इत्यर्थः , उक्त इति । व्यञ्जित इत्यर्थः, इममर्थं मनसिकृत्य पूर्व नित्योद्योगिन इत्युक्तमिति बोध्यम् , न तु क- र्मपारतन्त्र्येणेत्यादेः स्वीकृतेत्यत्र सम्बन्धः, आद्यमिच्छापदेन द्वितीयं स्वपदेन च गम्य- मिति बोध्यम् , विशिष्टेति विशिष्टं-दानवान्तरहननापेक्षया विशेषवत् , दानवस्य=हिर- ण्यकशिपोर्हननं यद्वा विशिष्टः सुरनरतिर्यगाद्यवध्यत्वरूपविशेषवान् यो दानवस्तस्य हननं तस्मिन्नुचितो यस्तथाविधायाः नरहरिविग्रहावलम्बनविषयिकाया इच्छायाः परि- ग्रहः, उचितेतीच्छाविशेषणं वा तस्मिन् यदौचित्यमर्थात् स्वस्य तस्माद्धेतोरित्यर्थः, स्वीकृ- तसिंहरूपस्येति । सिंहरूपस्य नररूपमिश्रत्वं प्रसिद्धमतो नोक्तम् , ये च्छिन्दन्तीति । त- इति शेषः छेदकत्वमिति । छेदनक्रियाकर्तृत्वमित्यर्थः, छेद्यत्वं छेदनकर्मत्वमस्य सम्भाव्यत इत्यनेन सम्बन्धः, असम्भावनीयमिति । आर्तेरमूर्तत्वादिति भावः , तदी- यानां नरहरिसम्बन्धिनाम् , स्वेच्छेति । स्वेच्छया भगवत इच्छया यन्निर्माणं नखानां- नर्माणं तेन हेतुना; औचित्यादमूर्तस्यापि वस्तुनश्छेदने सामर्थ्यात् , यद्वा स्वेच्छया- स्वातन्त्र्येण निर्माणे अमूर्तच्छेदनादेः करणे नखानामौचित्यादित्यर्थः , सम्भाव्यत एव= निश्चीयत एव, लोकदृष्ट्यनुरोधेनाह-अथ वेति । अस्मिन् पक्षे आर्तिशब्द आर्तिकारणं- लक्षयति तस्याव्यभिचारेण निखिलार्तिकारित्वञ्च ध्वनीति बोध्यम् , विनाशयद्भिरिति । नखेरिति शेषः, आतिरेवोच्छिन्ना भवतीति । तथाविधस्य हिरण्यकशिपोः हननमार्ते- रेवोच्छेदनं न तु कस्य चित्प्राणिन इति भगवबुद्धिरिति भावः, तस्यामप्यवस्थायां हन- नावस्थायामपि, उक्तमिति । व्यञ्जितमित्यर्थः, आर्तिमेव छिनत्ति न तु कञ्चित्प्राणिनमित्य- र्थग्रतीत्येति भावः, अत्र प्रपन्नेत्यादिविशेषणं त्राणाशीर्वादहेतुगर्भस्वच्छेत्यादिप्रशंसापरं- प्रशस्यमाना हि देवता प्रसेदुषी प्रेप्सितं प्रयच्छति , तत्र स्वच्छस्वच्छायेत्यत्र कर्मधारय- भ्रमं वारयन्व्याचष्टे-स्वच्छेनेत्यादि । स्वच्छतागुणेनेत्यस्यैव विवरणं नैर्मल्येनेति, भाव- वृत्तयः स्वच्छताऽऽदिधर्मवाचकाः, छाययेत्यस्य व्याख्यानं वक्रेत्यादि, अत्र वस्तुध्व- .