पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोद्योतः


लोचनम्

गवतोऽसम्मोहाध्यवसाययोगित्वेनोत्साहप्रतीतेवाररसो ध्वन्यते, नखानां प्रहरणत्वेन प्रह- रणेन च रक्षणे कर्तव्ये नखानामव्यतिरिक्तत्वेन करणत्वात्सातिशयशक्तिता कर्तृत्वेन सू- चिता, ध्वनितश्च परमेश्वरस्य व्यतिरिक्तकरणापेक्षाविरहः, मधुरिपोरित्यनेन तस्य सदैव जगत्रासापसारणोद्यम उक्तः, कीदशस्य मधुरिपोः ? स्वेच्छया केसरिणः, न तु कर्मपारत-

बालप्रिया

व्यात्मानं प्रतिपादयिष्यता ग्रन्थकृता कृतस्यास्य प्रथमपद्यस्य काव्यरूपत्वादस्मिन्नपि ध्व- निर्योजनीय इति मन्वानो रसादिभेदेन त्रिविधेषु ध्वनिषु प्रधानभूतं रसध्वनिमादौ यो- जयति-नित्येत्यादि । चशब्दः समुच्चये ध्वन्यते चेति सम्बन्धः; न वाच्यार्थमात्रमनेनो- च्यते किन्तु रसो ध्वन्यते चेत्यर्थः, नित्योद्योगिन इति । उद्योगो नामबाह्यसंनाहात्म- कोद्यमनक्रियारूप उत्साहानुभावः, भगवत इत्यनेनासम्मोहाध्यवसाययोगित्वेनोत्साहो- पपत्तेरौचित्यं दर्शितम् , यथोक्तं भरतेन "उत्तमप्रकृतिरुत्साहात्मको वीर इति" असं- मोहेन-सम्मोहराहित्येन योऽध्यवसायः एतदेवं कर्तुं शक्यमिति वस्तुतत्त्वनिश्चयः लद्योगित्वेनेति उत्साहहेतुकथनम् , असंमोहश्चाध्यवसायश्च तद्योगित्वेनेति के चित् , उत्साहप्रतीतेरिति । स्वेच्छाकेसरिणो मधुरिपोः प्रसन्नार्तिच्छिद इति पदेहिरण्यकशिपु- प्रभृतिनिबर्हणादिविषयकोत्साहस्य व्यञ्जनया सहृदयानां प्रतीतेरित्यर्थः, मत्यादिव्य- भिचारिप्रतीतेरुपलक्षणमिदम् , वस्तुध्वनिं दर्शयति-नखानामित्यादि । प्रहरणत्वेनेति करणत्वे हेतुः सिंहादीनामायुवत्वेनेत्यर्थः , प्रहरणत्व इति पाठे निमित्ते सप्तमी, ननु नखानां प्रहरणत्वेऽपि कथं त्राणक्रियां प्रति करणत्वमित्यतस्तत्सम्भावनान्द- र्शयति-प्रहरणेनेति । प्रहरणं हि स्वस्यान्यस्य वा रक्षां कर्तुमुपादीयत इति भावः, अ- व्यतिरिक्तत्वेन करणत्वादिति, अव्यतिरिक्तत्वमपृथग्भूतत्वमाभ्यन्तरत्वमिति यावत् त- द्विशिष्टकरणत्वादित्यर्थः, करणं द्विविधं बाह्यमाभ्यन्तरञ्च बाह्यं खड्गादि; आभ्यन्तरं- हस्तादि, करणत्वात् कर्तृत्वेनेति सम्बन्धः, करणत्वमनुक्त्वा कर्तृत्वोक्त्येत्यर्थः, मधुरि- पुर्नखैस्त्रायतामिति वक्तव्यमनुक्त्वा मधुरिपोर्नखास्त्रायन्तामित्युक्त्येति यावत् , सातिश-

टिप्पनी

स्वसम्बोध्यस्य युष्मत्पदार्थतयाऽन्यत्र व्यवस्थापितत्वादित्याशयः ।

 उत्साहप्रतोतेरिति । विभावादीनां मिथो नान्तरीयकत्वेन

"सद्भावश्चेद् विभावादेयोरेकस्य वा भवेद् ।
ऊटित्यन्यसमाक्षेपे तदा दोषो न विद्यते" ॥

 इत्युक्तदिशा प्रकृते सपत्नमध्वाद्यसुरालम्बनेन योग्यतयाऽऽक्षिप्तानां तदीयनिर्भी- कत्वादिज्ञानाादीपनतद्विषयावहेलाऽऽद्यनुभावगर्वादिसंचारिणां पानकरसन्यायेन योगाद् उत्साहइय प्रतीतेरित्यर्थः ।