पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकलोचनोपेतध्वन्यालोके


श्रीनृहरये नमः

स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः ।
त्रायन्तो वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥


लोचनम्

भीष्टव्याख्याश्रवणलक्षणफलसम्पत्तये समुचिताशी:प्रकटनद्वारेण परमेश्वरसांमुख्यं करोति वृत्तिकारः-स्वेच्छेति ।

 मधुरिपोर्नखाः वो युष्मान्व्याख्यातृश्रोतिृस्त्रायन्ताम् , तेषामेव सम्बोधनयोग्य- त्वात् ; सम्बोधनसारो हि युष्मदर्थः , त्राणं चाभीष्टलाभं प्रति साहायकाचरणं, सच्च तत्प्रतिद्वन्द्विविघ्नापसारणादिना भवतीति , इयदत्र त्राणं विवक्षितम् , नित्योद्योगिनश्च भ-

बालप्रिया

वणञ्चाभीष्टं फलं तस्य सम्पत्तये-निष्पत्तये , तदुभयसम्पत्तौ तदुभयहेतुकग्रन्थप्रतिष्ठा- रूपं फलं ग्रन्थकारस्य च सिद्धयतीति भावः , समुचितं-ग्रन्थारम्भे योग्यं यदाशिषः प्रकटनं वचनन्तद्वारेण , परमेश्वरस्य साम्मुख्यं व्याख्यातृश्रोतॄन् प्रत्याभिमुख्यं त्राणे- च्छारूपम् , करोति-सम्पादयति , तत्त्राणस्य परमेश्वरसाम्मुख्यायत्तत्वात्राणाङ्गभूतं त- त्साम्मुख्यमाशीर्वादेन सम्पादयतीत्यर्थः , यद्वा समुचिताया आशिषः प्रकटनं ग्रन्थ- तो निबन्धनं तद्द्वारेण , परमेश्वरे विषये साम्मुख्यं व्याख्यातृश्रोतॄणामाभिमुख्यमनुस- न्धानात्मकम् करोति-उत्पादयति , वृत्तिकार इत्यनेन स्वेच्छेत्यादिकं न कारिकारूप- सूत्राद्यपद्यमिति दर्शितम् , व इत्यस्य व्याख्यातृश्रोतृनिति व्याख्याने हेतुमाह-तेषामिति । कुतोऽत्र सम्बोधनप्रसङ्ग इत्यत आह-सम्बोधनेति । सम्बोधनं सारः प्राणो युष्मदर्थत्व- प्रयोजकोंऽशो यस्य सः, न ह्यसम्बोध्यो युष्मदा व्यपदिश्यते, त्रायन्तामित्यनेनात्र विवक्षि- तं व्याचष्टे-त्राणञ्चेति । अभीष्टेति व्याख्यानश्रवणरूपेत्यर्थः , सहायस्य कर्म साहाय- कं तत्प्रतिद्वन्द्वीति; अभीष्टलाभप्रतिबन्धकेत्यर्थः , अपसरणं निवर्तनम् , नार्थतत्त्वमनीषासमुन्मेषादेः परिग्रहः , इथदिति । उक्तरूपमित्यर्थः , अथ ध्वनि का-

टिप्पनी

 वृत्तिकार इति । स्वकृतानामेव मूलरूपाणां कारिकाणां व्याख्याऽऽत्मकवृत्तेः कर्ते- त्यर्थः, अत एव विशिष्टस्यैवारिप्सितत्वेन मूले मङ्गलाकरणेऽपि नाचारविरोधः ।

 के चित्तु मूलेऽपि “काव्यस्यात्मे तिप्रथमकारिकायामाद्यपदस्य काव्येत्यस्यान्यप- रत्वेऽपि परार्थोपनीतोदकुम्भदर्शनवत् श्रवणमात्रेणापि ; "काव्यालापाश्च ये के चिद् गीतकान्यखिलानि च । शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मन-

 इत्यादिप्रमाणतो भगवत्स्फोरकत्वेन वस्तुनि र्द्देशरूपमङ्गलं जातमेवेत्यपि वदन्ति, कारिकाकृवृत्तिकृतोरभेदस्त्वग्रे दर्शयिष्यते ।

 सम्बोधनसारो हीति । स्वजन्यबोधाश्रयत्वेन वक्रभिप्रायविषयत्वावच्छिन्नस्य आदिपदे-